पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३०
सटीकलोचनोपेतध्वन्यालोके


सीतात्यन्तवियोगपर्यन्तमेव स्वप्रबन्धमुपरचयता । महाभारतेऽपि शास्त्र रूपं काव्यच्छायान्वयिनि वृष्णिपाण्डवविरसावसानवैमनस्यदायिनीं समा- प्तिमुपनिबध्नता महामुनिना वैराग्यजननतात्पर्यं प्राधान्येन स्वप्रबन्धस्य दर्शयता मोक्षलक्षणः पुरुषार्थः शान्तो रसश्च मुख्यतया विवक्षाविषय- त्वेन सूचितः । एतच्चांशेन विवृतमेवान्याख्याविधायिमिः । स्वयमेव- चैतदुद्गीर्णं तेनोदीर्णमहामोहमग्नमुज्जिहीर्षता लोकमतिविमलज्ञानालोक. दायिना लोकनाथेन-

यथा यथा विपर्येति लोकतन्त्रमसारवत् ।
तथा तथा विरागोऽत्र जायते नात्र संशयः ॥


लोचनम्

 अत्यन्त ग्रहणेन निरपेक्षभावतया विप्रलम्भाशङ्कां परिहरति । वृष्णीनां परस्प- रक्षयः, पाण्डवानामपि महापथक्लेशेनानुचिता विपत्तिः, कृष्णस्यापि व्याधाद्विध्वंस इति सर्वस्यापि विरसमेवावसानमिति । मुख्यतयेति । यद्यपि “धर्मे चार्थे च कामे च मोक्षे चेत्युक्तं, तथापि चत्वारश्चकाराएवमाहुः-यद्यपि धर्मार्थकामानां सर्वस्वं तादृ- ङ्नास्ति यदन्यत्र न विद्यते, तथापि पर्यन्तविरसत्यमवावलोक्यताम् । मोक्षे । यद्रूपं तस्य सारतात्रैव विचार्यतामिति ।

 यथायथेति । लोकैस्तन्त्र्यमाणं यत्नेन सम्पाद्यमानन्धर्मार्थकामतत्साधन लक्षणं वस्तुभूततयाभिमतमपि । येन येनार्जनरक्षणक्षयादिना प्रकारेण । असारवत्तुच्छेन्द्रजा- लादिवत् । विपर्यति । प्रत्युत विपरीतं सम्पद्यते । आस्तान्तस्य स्वरूपचिन्तेत्यर्थः । तेन तेन प्रकारेण अत्र लोकतन्त्रे। विरागो जायत इत्यनेन तत्वज्ञानोत्थितं निर्वेदं

बालप्रिया

 'सीतात्यन्तवियोगपर्यन्तमित्यत्रात्यन्तग्रहणफलमाह-अत्यन्तग्रहणेनेत्यादि । वृष्णिपाण्डवविरसावसानेत्युक्तं विवृणोति-वृषणीनामित्यादि । मोक्षलक्षणः पुरु- षार्थो मुख्यतया विवक्षाविषयत्वेन सूचित इति यदुक्तं तस्यानुपपत्तिमाशंक्य परिह- रति-यद्यपीत्यदिना। मोक्षे चेत्युक्तमिति । क्वचिद्ग्रन्थे 'भरतर्षभ यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचिदिति च पाठः । एवमाहुरिति । वक्ष्यमाणं विशेषं द्योतयन्तीत्यर्थः । सर्वस्वमिति । प्रधान स्वरूपमित्यर्थःनास्तीति । अत्रेति शेषः । यदन्यत्र न विद्यते तादृगत्र नास्तीति सम्बन्धः । यदनास्ति तदन्य, राप्यस्तीति भावः। द्योत्यं विशेषं दर्शयति-तथापीत्यादि । पर्यन्तविरसत्व. मिति । धर्मार्थकामानामित्यनुषज्यते । लोकतन्त्रमित्येतद्वयाचष्टे- लोकैरित्यादि ।