पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२९
चतुर्थोद्योतः


प्पन्नशरीरत्वेन नवत्वम् । यथा-'वाणिअअ हत्थिदन्ता' इत्यादिगाथार्थस्य ।

करिणीवेहव्वअरो मह पुत्तो एक्ककाण्डविणिवाइ ।
हअसोन्हाएँ तह कहो जह कण्डकरण्डअं वहइ ।।
[ करिणीवैधव्यकरो मम पुत्र एककाण्डविनिपाती ।

 हतस्नुषया तथा कृतो यथा काण्डकरण्डकं वहति॥ इति च्छाया] एवमादिष्वर्थेषु सत्स्वप्यनालीढतैव ।

 यथा व्यङ्गयभेदसमाश्रयेण ध्वनेः काव्यार्थाना नवत्वमुत्पद्यते, तथा व्यञ्जकभेदसमाश्रयेणापि । तत्तु ग्रन्थविस्तरभयान्न लिख्यते स्वयमेव सहृदयैरभ्यूह्यम् । अत्र च पुनःपुनरुक्तमपि सारतयेदमुच्यते-

व्यङ्ग्यव्यञ्जकभावेऽस्मिन्विविधे सम्भवत्यपि ।
रसादिमय ऐकस्मिन् कविः स्यादवधानवान् ॥ ५ ॥

 अस्मिन्नर्थानन्त्यहेतौ व्यङ्गयव्यञ्जकभावे विचित्रं शब्दाना सम्भव- त्यपि कविरपूर्वार्थलाभार्थी रसादिमय एकस्मिन् व्यङ्ग्यव्यञ्जकभावे यत्ना- दवदधीत । रसभावतदाभासरूपे हि व्यङ्गये तद्व्यञ्जकेषु च यथानिर्दिष्टेषु वर्णपदवाक्यरचनाप्रबन्धेष्ववहितमनसः कवेः सर्वमपूर्वंकाव्यं सम्पद्यते । तथा च रामायणमहाभारतादिषु सङ्घामादयः पुनःपुनरमिहिता मपि नवनवाः प्रकाशन्ते । प्रबन्धे चाङ्गी रस एक एवोपनिबध्यमानोऽर्थ- विशेषलामं छायातिशयं च पुष्णाति । कस्मिन्निवेति चेत्-- यथा रामा- यणेयथा वा महाभारते । रामायणे हि करुणो रसः स्वयमादिकविना- सूत्रितः 'शोकः श्लोकत्वमागतः इत्येवंवादिना । निर्व्यूढश्च स एव


लोचनम्

धिकन्नान्यत् । करिणीवैधव्यकरो मम पुत्रः एकेन काण्डेन विनिपातनसमर्थः हतस्नु- षया तथा कृतो यथा काण्डकरणकं वहतीत्युत्तान एवायमर्थः, गाथार्थस्थानालीढतैवेति सम्बन्धः॥४॥

बालप्रिया

सम्बन्धः ।एतत्प्रकारेत्यस्य ध्वनिप्रभेदेत्यर्थः । वृत्तौ 'शरीरत्वेन नवत्वमित्युभयत्र भवतीति शेषः। 'एककाण्डविनिपातीति छाया, तस्य विवरणम्-एकेन काण्डे. नेत्यादि । काण्डो बाणः ॥ ४ ॥

 ६७ ध्व०