दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात् । |
तथा हि विवक्षितान्यपरवाच्यस्यैव शब्दशक्त्युद्भवानुरणनरूपव्य ङ्गयप्रकारसमाश्रयेण नवत्वम् । यथा-'धरणीधारणायाधुना त्वं शेषः' इत्यादेः।
शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः। |
इत्यादिषु सत्स्वपि । तस्यैवार्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यसमाश्रयेण नवत्वम् । यथा- 'एवंवादिनि देवर्षौ' इत्यादि श्लोकस्य ।
कृते वरकथालापे कुमार्यः पुलकोद्गमैः । |
इत्यादिषु सत्स्वर्थशक्त्युद्भवानुरणनरूपव्यङ्गयस्य कविप्रौढोक्तिनि- र्भितशरीरत्वेन नवत्वम् । यथा-'सज्जेइ सुरहिमासो' इत्यादेः ।
सुरभिसमये प्रवृत्ते सहसा प्रादुर्भवन्ति रमणीयाः। |
इत्यादिषु सत्स्वप्यपूर्वत्वमेव ।
अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य कविनिबद्धवक्तृप्रौढोक्तिमात्रनि
लोचनम्
दृष्टपूर्वा इति। बहिः प्रत्यक्षादिभिः प्रमाणैः प्राक्तनैश्च कविभिरित्युभयथा नेयम् । काम्यं मधुमासस्थानीयम् , स्पृहां लज्जामिति, रागवतामुत्कलिका इति च । शब्दस्पृष्टेऽय का हृद्यता।
एतानि चोदाहरणानि वितत्य पूर्वमेव व्याख्यातानीति किं पुनरुक्त्या सत्यपि प्राचन कविस्कृष्टत्वे नूतनत्वं भवत्येवंतत्प्रकारानुप्रहादित्येतावति तात्पर्य हि ग्रन्थस्या-
बालप्रिया
ट्ठमान्वयिनमर्थमाह-वहिरित्यादि । अर्थान्वयिनमाह-प्राक्तनैरित्यादि का हृद्यतेति । अतश्च 'कृत' इत्यादिश्लोकात् ‘एवंवादिनीत्यादेः 'सुरभीत्यादिश्लो कात् 'सज्जयतीत्यादेश्च नवत्वमस्तीति भावः ।
सत्यपीत्यादि । एतेषामिति शेषः । एतत्प्रकारानुग्रहान्नूतनत्वं भवत्येवेति