पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२७
चतुर्थोद्द्योतः


गाथा चात्र कृतैव महाकविना-

अतहट्ठिए वि तहसण्ठिए व्व हिअअम्मि जा णिवेसेइ ।
जस्थविसेसे सा जअह विकडकइगोअरा वाणी ॥

[ अतथास्थितानपि तथासंस्थितानिव हृदये या निवेशयति ।
अर्थविशेषान् सा जयति विकटकविगोचरा वाणी ॥ इति छाया ।]

 तदित्थं रसभावाद्याश्रयेण काव्यार्थानामानन्त्यं सुप्रतिपादितम् ।

एतदेवोपपादयितुमुच्यते--


लोचनम्

प्रतिपादितं भावानचेतनानपि चेतनवच्चेतनानचेतनवदित्यत्र। अतथास्थि. तानपि बहिस्तथासंस्थितानिवेति । इवशब्देन एकतरत्र विश्रान्तियोगाभावादेव सुतरां विचित्ररूपानित्यर्थः। हृदय इति । प्रधानतमे समस्तभावकनकनिकषस्थान इत्यर्थः । निवेशयति यस्य यस्य हृदयमस्ति, तस्य तस्य अचलतया तत्र स्थापयतीत्यर्थः । अतएव ते प्रसिद्धार्थेभ्योऽन्य एवेत्यर्थविशेषास्सम्पद्यन्ते । हृदयनिविष्टाएव च तथा भवन्ति नान्यथेत्यर्थ।। सा जयति परिच्छिन्नशक्तिभ्यः प्रजापतिभ्योऽ. प्युत्कर्षेण वर्तते। तत्प्रसादादेव कविगोचरोवर्णनीयोऽर्थो विकटो निस्सीमासम्पद्यते॥३॥

 प्रतिभानां वाणीनाम्यानन्त्यं ध्वनिकृतमिति यदनुदिन्नमुक्तं, तदेव कारिकथा भङ्ग्या निरूप्यत इत्याद-उपपादयितुमिति । उपपत्या निरूपयितुमित्यर्थः । यद्यप्यर्थान- न्त्यमाने हेतुर्वृत्तिकारेणोक्तः, तथापि कारिकाकारेण नोक्त इति भावः । यदि वा उच्यते संग्रहश्लोकोऽयमिति भावः । अत एवास्य श्लोकस्य वृत्तिग्रन्थे व्याख्यानं न कृतम् ।

बालप्रिया

र्इवशब्देनेति । सम्भावनार्थ केनेति भावः । इत्यर्थ इति । गम्यत इति शेषः ।समस्तेति । समस्तभावाः सकलपदार्था एव कनकानि तेषां निकषस्थान इत्यर्थः । हृदये निवेशयतीत्यस्य विवरणम्-यस्येत्यादि । अतएव हृदयस्थापनादेन । ते हृदयस्थापितार्थाः । अर्थविशेषानित्यस्य विवरणम्-प्रसिद्धत्यादि । तथेति । अर्थविशेषा इत्यर्थः । विकटः कविगोचरो यस्या इति व्युत्पत्तिमभिप्रेत्य विवृणोति-कवि-गोचर इत्यादि ॥ ३३॥

।। अत्यन्ततिरस्कृतवाच्यार्थान्तरसङ्क्रमितवाच्याववि। अत्यन्ततिरस्कृतवाच्यार्थान्तरसङ्क्रमितवाच्याववि

 'एतदेवेत्यादिग्रन्थमवतारयति-प्रतिभानामित्यादि । ध्वनिकृतमिति ।ध्वनिभेदकृतार्थानन्त्यप्रयुक्तमित्यर्थः। अनुद्भिन्नमिति । उपपत्तरकथनेनास्फुट-मित्यर्थः । उक्तमिति । ध्वनेर्य इत्यादिनोक्तमित्यर्थः । वृत्तिकारणोक्त इति । "युक्त्यानयेत्यादिकारिकाव्याख्यावसर इति शेषः । संग्रहश्लोक इति । वृत्ति- कारकृतः परिकरश्लोक इत्यर्थः ।