पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२६
सटीकलोचनोपेतध्वन्यालोके


इत्यादिश्लोकस्य 'नानाभङ्गिभ्रमद्भूः' इत्यादिश्लोकापेक्षयान्यत्वम् ।

युक्त्याऽनयानुसर्तव्यो रसादिर्बहुविस्तरः ।
मिथोऽप्यनन्तता प्राप्तः काव्यमार्गो यदाश्रयात् ॥३॥

 बहुविस्तारोऽयं रसभावतदाभासतत्प्रशमनलक्षणो मार्गो यथास्वं विभावानुभावप्रभेदकलनया यथोक्तं प्राक् । स सर्व एवानया युक्त्यानुस- र्तव्यः। यस्य रसादेराश्रयादयं काव्यमार्गः पुरातनैः कविभिः सहस्र संख्यैरसंख्यैर्वा बहुप्रकारं क्षुण्णत्वान्मिथोऽप्यनन्ततामेति । रसभावादीनां हि प्रत्येकं विभावानुभावव्यभिचारिसमाश्रयादपरिमितत्वम् । तेषां चैकै कप्रभेदापेक्षयापि तावज्जगवृत्तमुपनिबध्यमानं सुकविभिस्तादेच्छावशा- दन्यथा स्थितमप्यन्यथैव विवर्तते । प्रतिपादितं चैतच्चित्रविचारावसरे ।


लोचनम्

रतिरुक्ता, सोभयोरप्येक स्वरूपचित्तवृत्यनुप्रवेशमाचक्षाणा रति सुतरां पोषयति ॥ २ ॥

 एवं मौलं भेदचतुष्टयमुदाहृत्यालक्ष्यक्रमभेदेष्वतिदेशमुखेन सर्वोपभेदविषयं निर्देशं करोति--युक्त्यानयेति । अनुसर्तव्य इति। उदाह्रर्तव्य 'इत्यर्थः । यथोक्तमिति ।

तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश्च ये।
तेषामानन्त्यमन्योन्यसम्बन्धपरिकल्पना ॥

 इत्यत्र । प्रतिपादितं चैतदिति । चशब्दोऽपिशब्दार्थे भिन्नक्रमः। एतदपि

बालप्रिया

तदसम्भवेन तत्सम्भवं विनेत्यर्थः । रतिरिति । निर्वृतिरित्यर्थः । उक्तेति । दर्शि- तेत्यर्थः । सुतरामिति । द्वितीयश्लोकतोऽत्यधिकमित्यर्थः ॥२॥

 मौलं भेदचतुष्टयमिति ।। अत्यन्ततिरस्कृतवाच्यार्थान्तरसङ्क्रमितवाच्याववि वक्षितवाच्यस्य द्वौ भेदौ, असंलक्ष्यक्रमभ्यंग्यसंलक्ष्यक्रमब्यंग्यौ विवक्षितान्यपरवाच्यस्य द्वौ भेदावित्येवमादिमं भेदचतुष्टयमित्यर्थः । उदाहृत्येति । अनेन तरङ्गेत्यादिकं संल- क्ष्यक्रमव्यंग्योदाहरणमिति स्फुटीकृतं विक्रमोर्वशीयस्थे, द्वितीयोद्योतोदाहृतं तत्पद्यं तु यथा तदुदाहरणं भवति, तथा सहृदयैरालोचनीयम् । नानाभङ्गीत्यादिश्लोकस्समप्र. तया नोपलब्धः। मलक्ष्येति । अलक्ष्यक्रमस्यावान्तरभेदेश्वित्यर्थः । कारिकास्थस्या- नुसर्तव्य इत्यस्य व्याख्यानम्-उदाहर्तव्य इति । यथोक्तं प्रागित्यत्रत्यप्राक्पदार्थकथनं' तस्याङ्गानामित्यादि । अपिशब्दार्थ इति । समुच्चय इत्यर्थः । इत्यत्र प्रतिपादित. मिति सम्बन्धः । अतथास्थितानित्यत्र पूरयति-बहिरिति । हृदयाद्बहिर्लोक इत्य-