पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२५
चतुर्थोद्द्योतः


वैलक्ष्याद्विमुखीभवेदिति पुनस्तस्याप्यनारम्भिणः
साकाङ्क्षप्रतिपत्ति नाम हृदयं यातं तु पारं रतेः ।।

 इत्यादेः श्लोकस्य,

शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै-
र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥

 इत्यादिषु श्लोकेषु सत्स्वपि नवत्वम् । यथा वा-'तरङ्गभ्रूभङ्गा'


लोचनम्

क्षणमात्रन्धृतश्चुम्बनाभिलाषो यया । अतएव आभोगेन पुनः पुनर्निद्राविचारनि. र्वर्णनया विलोलं कृत्वा स्थिता, न तु सर्वथैव चुम्बनान्निवर्तितुं शक्नोतीत्यर्थः । एवं. भूतैषा यदि मया परिचुम्ब्यते, तद्विलक्षा विमुखीभवेदिति तस्यापि प्रियस्य परिचु- म्बनविषये निरारम्भस्य । हृदयं साकांक्षप्रतिपत्ति नामेति । साकांक्षा साभि- लाषा प्रतिपत्तिः स्थितिर्यस्य तादृशं रुहरुहिकाकदर्थितं न तु मनोरथसम्पत्तिचरितार्थं, किन्तु रतेः परस्परजीवितसर्वस्वाभिमानरूपायाः परनिर्वृतेः केन चिदप्यनुभवेनाल- ब्धावगाहनायाः पारङ्गतमिति परिपूर्णीभूत एव शृङ्गारः । द्वितीयश्लोके तु परिचुम्बनं सम्पन्नं लज्जा स्वशब्देनोक्ता । तेनापि सा परिचुम्बितेति यद्यपि पोषित एव श्रृङ्गा- रः, तथापि प्रथमश्लोके परस्पराभिलाषप्रसरनिरोधपरम्परापर्यवसानासम्भवेन या

बालप्रिया

प्रतिबद्धः । भोगपदस्य साक्षात्कारार्थकत्वमभिप्रेत्याह-आभोगेनेत्यादि । निद्रेति । निद्राविचारेण अयं निद्रातीति बुद्धया या निर्वर्णना दर्शनं तयेत्यर्थः । अनेन चुम्बनाभि- लाषस्य पुनराविर्भावो गम्यते । विलोलं कृत्वा चुम्बनसंशयसहितं यथा तथा । भा. वार्थमाह-न त्वित्यादि । उत्तरार्धं विवृणोति-एवमित्यादि । विलक्षा लज्जिता सती । इतीति हेतौ । अपीति वध्वाः समुच्चये। रुहरूहिकाकदर्थितं औत्सुक्येन पीडि. तम् । गम्यमर्थमाह-न त्वित्यादि । चरितार्थमित्यस्यानन्तरं यद्यपीति क्वचित् ग्रन्थे पाठः, तत्तु नामशब्दविवरणम् । किंत्विति तुशब्दार्थकथनम् । अनुभवेनेति । चुम्बा नालिङ्गनाद्यनुभवेनेत्यर्थः । अलब्धेति। अलब्धमवगाहनं यस्यां तस्यामित्यर्थः। अव- गाहनस्यालाभेऽपि पारं गतमित्यापाततो विरोधः । श्लोकस्यास्य नवत्वं दर्शयितु- माह-द्वितीयश्लोक इत्यादि । शङ्कते-तेनापीत्यादि । समाधत्ते-तथाऽपी. स्यादि । परस्परेति । परस्पराभिलाषप्रसरस्य या निरोधपरम्परा तस्या यत्पर्यवसान