पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२४
सटीकलोचनोपेतध्वन्यालोके


 इत्यस्य,

सविभ्रमस्मितोद्भेदा लोलाक्ष्यः प्रस्खलदूरः ।
नितम्बालसगामिन्यः कामिन्यः कस्य न प्रियाः॥

 इत्येवमादिषु श्लोकेषु सत्स्वपि तिरस्कृतवाच्यध्वनिसमाश्रयेणापूर्व- त्वमेव प्रतिभासते । तथा--

 यः प्रथमः प्रथमः स तु तथाहि हतहस्तिबहलपललाशी ।

 श्वापदगणेषु सिंहः सिंहः केनाधरीक्रियते ॥

 इत्यस्य,

स्वतेजाक्रीतमहिमा केनान्येनातिशय्यते ।
महद्भिरपि मातङ्गैः सिंहः किमभिभूयते ।।

 इत्येवमादिषु श्लोकेषु सत्स्वप्यर्थान्तरसङ्क्रमितवाच्यध्वनिसमाश्र. येण नवत्वम् । विवक्षितान्यपरवाच्यस्याप्युक्तप्रकारसमाश्रयेण नवत्वं यथा-

निद्राकैतविनः प्रियस्य वदने विन्यस्य वक्रं वधूः
बोधनासनिरुद्धचुम्बनरसाप्याभोगलोलं स्थिता ।


लोचनम्

स्य नवत्वमिति सङ्गतिः। द्वितीयः प्रथमशब्दोऽर्थान्तरेऽनपाकरणीयप्रधानत्वासाधा. रणत्वादिव्यंग्यधर्मान्तरे सक्रान्तं स्वार्थ व्यनक्ति । एवं सिंहशब्दोऽपि वीरत्वानपे. क्षत्वविस्मयनीयवादौ व्यंग्यधर्मान्तरे सङ्क्रान्तं स्वार्थं ध्वनति ।

 एवं प्रथमस्य द्वौ भेदावुदाहृत्य द्वितीयस्याप्युदाहर्तुमासू त्रयति-विवक्षितेति । निद्रायां कैतषो कृतकसुप्त इत्यर्थः। वदने विन्यस्य वक्त्रमिति। वदनस्पर्शजमेव तावद्दिव्यं सुखं त्यक्तुन्न पारयतीति। अतएव प्रियस्येति । वधूः नवोढा । बोधत्रा. सेन प्रियतमप्रबोधभयेन निरूद्धो हठात् प्रवर्तमानः प्रवर्तमानोऽपि कथञ्चित्कथञ्चित्

बालप्रिया

दीनां चतुर्णां वर्णनेऽपि तदपेक्षया स्मितं किञ्चिदित्यादौ तद्वर्णनस्यापूर्वत्वमेव भाती- त्यर्थः । एवमुत्तरत्रापि बोध्यम् । अनपेति । अनपाकरणीयप्रधानत्वासाधारणत्वादि- रूपं व्यंग्यं यद्धर्मान्तरं तस्मिन्नित्यर्थः । वीरत्वेत्यादेरप्येवमर्थो बोध्यः ।

 कृतकेति । कैतवेत्यर्थः । तावदिति । आदावित्यर्थः । पारयतीति । वधूरिति शेषः । इतीति । व्यज्यत इति शेषः । अतएवेति । एवंविधप्रीतिकारित्वादेवेत्यर्थः । इतीति। इत्युक्तमित्यर्थः । निरुद्धत्वोक्त्या गम्यमाह-हठात्प्रवर्तमानोऽपीति। धृतः .