पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२३
चतुर्थोद्द्योतः


 अतो ध्वनेरुक्तप्रभेदमध्यादन्यतमेनापि प्रकारेण विभूषिता सती वाणी पुरातनकविनिबद्धार्थसंस्पर्शवत्यपि नवत्वमायाति । तथाह्यविवक्षित. वाच्यस्य ध्वनेः प्रकारद्वयसमाश्रयणेन नवत्वं पूर्वार्थानुगमेऽपि यथा--

स्मितं किञ्चिन्मुग्धं तरलमधुरो दृष्टिविभवः
परिस्पन्दो वाचामभिनवविलासोर्मिसरसः ।

गतानामारम्भः किसलयितलीलापरिमलः
स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ॥


लोचनम्

 तत्र प्रथनमत्यन्ततिरस्कृतवाच्यान्वयमाह-स्मितमिति । मुग्धमधुरविभवस. रसकिसलयितपरिमलस्पर्शनान्यत्यन्ततिरस्कृतानि । तैरनाहृतसौन्दर्यसर्वजनवाल्लभ्या- क्षीणप्रसरत्वसन्तापप्रशमनतर्पकत्वसौकुमार्यसार्वकालिकतत्संस्कारानुवृत्तित्वयत्नाभिलष. णीयसङ्गतत्वानि ध्वन्यमानानि यानि, तैः स्मितादेः प्रसिद्धस्यार्थस्य स्थविरवेधोविहि- तधर्मव्यतिरेकेण धर्मान्तरपात्रता यावत् क्रियते, तावत्तदपूर्वमेव सम्पद्यत इति सर्वत्रेति मन्तव्यम् । अस्येति अपूर्वत्वमेव भासत इति दूरेण सम्बन्धः । सर्वत्रैवा-

बालप्रिया

 'स्मितमिति । किंचित् स्मितं मन्दस्मितम् । मुग्धं भवति इति सर्वत्र शेषः । तरलश्च मधुरश्च तरलमधुरः। दृष्टिविभवः विभवविशिष्टा दृष्टिः । परिस्पन्दः प्रसरः । अभिनवा ये विलासास्तात्कालिका विशेषास्तेषामूर्मिभिः उत्तरोत्तरमुत्पद्यमा- नाभिः परम्पराभिः सरसः। किसलयितः किसलयसम्बन्धी लीलायाः परिमलो यत्र तथाभूतः। मोहयतीति व्युत्पत्त्या मोहकारित्वं "मुग्धा नववयःकामेत्यादिना लक्षि- तं मौग्ध्यं वा यत्तद्वान्मुग्धशब्दस्य मुख्यार्थः । एवं मधुरविभावादिशब्दानां मधुररसै. श्वर्यादयो मुख्यार्थाः, तेषामत्र बाधात्तत्सादृश्येन निमित्तेन मुग्धादिशब्दा, स्मितादीन् लक्षयन्ति, तेन च स्मितादीनां सौन्दर्यविशेषादिकं द्योत्यत इत्याह-मुग्धेत्यादि । मुग्धमधुरेत्यादि । मुग्धमधुरादयो मुख्यार्था इत्यर्थः । अत्यन्ततिरस्कृता नीति । बाधादिति भावः । तैरित्यस्य ध्वन्यमानानीत्यनेन सम्बन्धः । अत्र यथा. संख्यं तेन स्मितस्य अनाहृतकृत्रिमं सौन्दर्यम् । दृष्टेः सर्वजनवाल्लभ्यमक्षीणप्रस- रत्वं च । वचसस्सन्तापप्रशमनत्वं तर्पकत्वं च, गमनस्य सुकुमारपादकृतत्वेन मान्यं सार्वकालिकलीलानुवृत्तित्वं च, तारुण्यस्य यत्नाभिलषणीयसङ्गतत्वं च ध्वन्यत इत्यर्थः । तैर्धर्मान्तरपात्रतेति सम्बन्धः। अनाहृतसौन्दर्यादिरूपधर्मान्तरपात्रत्वमित्यर्थः । स्थ. विरवेधाः ब्रह्मा । तदिति । स्मितादिकमित्यर्थः । इत्तीति हेतौ । सर्वत्रेत्यादि । इत्थं सर्वत्र मन्तव्यमित्यर्थः । अपूर्वत्वमेव भासत इति । भाविभ्रमेत्यादौ स्मिता.