पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२२
सटीकलोचनोपेतध्वन्यालोके


प्रयोजनान्तरमुच्यते-

ध्वनेर्यः सगुणीभूतव्यङ्गयस्याध्वा प्रदर्शितः ।
अनेनानन्त्यमायाति कवीनां प्रतिभागुणः ॥ १ ॥

 य एष ध्वनेर्गुणीभूतव्यङ्गयस्य च मार्गः प्रकाशितस्तस्य फलान्तरं

कविप्रतिभानन्त्यम् ।

 कथमिति चेत्-

अतो अन्यतमेनापि प्रकारेण विभूषिता ।
वाणी नवत्वमायाति पूर्वार्थान्वयवत्यपि ॥ २ ॥


लोचनम्

ते । तत्र सत्काव्यकरणे कथमस्य व्यापार इति पूर्व वक्तव्यं निष्पादितस्य ज्ञेयत्वादिति तदुच्यते-ध्वनेर्य इति ॥ १॥

 ननु ध्वनिभेदात् प्रतिभानामानन्त्यमिति व्यधिकरणमेतदित्यभिप्रायेणाशङ्कते- कथमितीति ।

 अत्रोत्तरम्-अतो हीति । आसतान्तावद् बहवः प्रकाराः, एकेनाप्येवं भवतीत्य- पिशब्दार्थः । एतदुक्तं भवति-वर्णनीय वस्तुनिष्ठः प्रज्ञाविशेषः प्रतिभानं, तत्र वर्णनी. यस्य पारिमित्यादाद्यकविनैव स्पृष्टत्वात् सदस्य तद्विषयं प्रतिभानं तज्जातीयमेव स्या त् । ततश्च काव्यमपि तज्जातीयमेवेति भ्रष्ट इदानीं कविप्रयोगः, उक्तवैचित्र्येण तु त एवार्था निरवधयो भवन्तीति तद्विषयाणां प्रतिभानामानन्त्यमुपपन्नमिति । ननु प्रतिभानन्त्यस्य किं फलमिति निर्णतुं वाणी नवत्वमायातीत्युक्तं, तेन वाणीनां काव्यवाक्यानां तावन्नवत्वमायाति । तच्च प्रतिभानन्त्ये सत्युपपद्यते, तच्चार्थानन्त्ये, तश्च ध्वनिप्रभेदादिति ।

बालप्रिया

त्पादनस्येत्यर्थः । कथमस्य व्यापार इतीति । ध्वनिप्रतिपादनं कथमुपयोगीत्येत. दित्यर्थः । इत्येतदिति सम्बन्धः ॥ १ ॥

 व्यधिकरणमिति । असङ्गतमित्यर्थः । 'अन्यतमेनापी त्यपिशब्दं दर्शयति- आसतामिति । एतदुक्तं भवतीति । प्रथमकारिकोत्तरार्धन द्वितीयकारिकया च वक्ष्यमाणो भावार्थः प्रदर्शितो भवतीत्यर्थः । तमेवाह-वर्णनीयेत्यादि ध्वनिप्रभेदा. दित्यन्तेन । वर्णनीयवस्तुनिष्ठः वर्णनीयतत्तद्वस्तुविषयकः । प्रज्ञाविशेष इति । स्फूर्तिरूप इत्यर्थः । कवेरिति शेषः । तज्जातीयमिति । आद्यकविप्रतिभानजातीय- मित्यर्थः । तज्जातीयमेवेति । आद्यकविकाव्यजातीयमेवेत्यर्थः । इतीति हेतौ । भ्रष्ट इति । स्यादित्यनुषङ्गः । उक्तवैचित्र्येणेति । ध्वनिगुणीभूतव्यंग्यवैचित्र्येणे. त्यर्थः । वाणीनामित्यस्य विवरणम्-काव्यवाक्यानामिति । इतीति समाप्तौ ।