पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थ उद्द्योतः

एवं ध्वनिं सप्रपञ्चं विप्रतिपत्तिनिरासार्थं व्युत्पाद्य तद्व्युत्पादने


लोचनम्

चतुर्थ उद्ध्योतः

कृत्यपञ्चकनिर्वाहयोगेऽपि परमेश्वरः ।
नान्योपकरणापेक्षो यया तां नौमि शाङ्करीम् ॥

 उद्यौतान्तरसङ्गतिं विरचयितुं वृत्तिकार आह- -एवमिति । प्रयोजनान्तर. मिति । यद्यपि 'सहदयमनःप्रीतयः इत्यनेन प्रयोजनं प्रागेवोक्तं, तृतीयोद्योतावधौ च सत्काव्यं कर्तुं वा ज्ञातुं वेति तदेवेषत्स्फुटीकृतं, तथापि स्फुटतरीकर्तुमिदानीं यत्नः। यतस्सुस्पष्टरूपत्वेन विज्ञायते, अतोऽस्पष्टनिरूपितास्पष्ट निरूपणमन्यथैव प्रतिभातीति प्रयोजनान्तरमित्युक्तम् । अथवा पूर्वोक्तयोः प्रयोजनयोरन्तरं विशेषोऽभिधीयते; केन विशेषेण सत्काव्यकरणमस्य प्रयोजनं, केन च सत्काव्यबोध इति विशेषो निरूप्य.

बालप्रिया

अथ चतुर्थोद्योतटिप्पणी प्रारभ्यते

अथोद्योतं चतुर्थं च लोचनस्य यथामति ।
किमपि व्याकरिष्यामि प्रसीदन्त्वन्न मे बुधाः ॥

 कृत्येति । कृत्यपञ्चकं सृष्टयादिरूपम् । यथोक्तं-"पञ्चविधं तत्कृत्यं सृष्टिस्थि. तिसंहारतिरोभावः तद्वदनुग्रहकरणं प्रोक्तं सततोदितस्यास्य" इति। यया मायारूपया हेतुना । नान्योपकरणापेक्ष इति सम्बन्धः। मायारूपां यामेवापेक्षमाणः सृष्टयादिकं निर्वहतीत्यर्थः ।

 उद्यातान्तरसङ्गतिमिति । तृतीयोद्योतेन सह चतुर्थोद्योतस्य सङ्गतिमित्यर्थः । पूर्वोत्तस्यैव प्रयोजनस्य वक्ष्यमाणत्वात् प्रयोजनान्तरमित्युक्तिरयुक्तेत्याशंक्य समाधत्ते-यद्यपीत्यादि । ननु प्रीतिरूपप्रयोजनस्योक्तत्वेऽपि वक्ष्यमाणं तदन्य. देवेत्यत आह-तृतीयेत्यादि । तदेवेति । प्रयोजनमेवेत्यर्थः । स्फुटतरीकर्तु। मिति । तदेवेत्यनुषज्यते । विज्ञायत इति । वक्ष्यमाणमिति शेषः । ततः किमत आह-अत इत्यादि। अस्पष्टनिरूपितादिति । प्रयोजनादिति शेषः । सत्काव्यं कर्तुं वा ज्ञातुं वा सम्यगभियुक्तैः सद्भिः ध्वनिः प्रयत्नतो विवेच्य इत्युक्त्या सत्काव्य- करणज्ञानयोः ध्वनिविवेचनप्रयोजनत्वमर्थाल्लभ्यत इत्यतस्तत्प्रयोजनमस्पष्टनिरुपित. मित्यर्थः । स्पष्टनिरूपणमिति । स्पष्टमुक्तमित्यर्थः । प्रकारान्तरेण व्याचष्टे- अथवेत्यादि । उक्तस्यैव विवरणम्-केन विशेषेणेत्यादि । अस्येति । ध्वनिव्यु-

 ६६ ध्व०