र्थत्वाच्च तस्योक्तमेव ध्वनिलक्षणं साघीयः । तदिदमुक्तम् -
अनाख्येयांशभासित्वं निर्वाच्यार्थतया ध्वनेः । |
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके
तृतीय उद्दध्योतः ॥
लोचनम्
उक्तमिति । संग्रहार्थं मयैवेत्यर्थः । अनाख्येयांशस्याभासो विद्यते यस्मिन् काव्ये तस्य भावस्तन्न लक्षणं ध्वनेरिति सम्बन्धः । अत्र हेतुः-निर्वाच्यार्थतयेति । निर्विभज्य वक्तुं शक्यत्वादित्यर्थः । अन्यस्तु 'निर्वाच्यार्थतया' इत्यत्र निसो नञर्थत्वं परिक- लप्यानाख्येयांशभासित्वेऽयं हेतुरिति व्याचष्टे, तत्तु क्लिष्टम् । हेतुश्च साध्याविशिष्ट इत्युक्तव्याख्यानमेवेति शिवम् ।
काव्यालोके प्रथां नीतान् ध्वनिभेदान् परामृशत् । |
इति श्रीमहामाहेश्वराचार्यवभिनवगुप्तोन्मीलिते सहृद्यालोक.
लोचने ध्वनिसङ्केते तृतीय उद्द्योतः ॥
बालप्रिया
पठनीयम् । तदिति । अनाख्येयस्वरूपत्वमित्यर्थः । निर्वाच्यार्थतयेति निर्वाच्यांश- तयेति वा पाठः । निरित्यस्य विवरणम्-विभज्येति । दूषणान्तरमाह-हेतु. श्चेत्यादि। साध्याविशिष्ट इति । साध्यादभिन्न इत्यर्थः ।
काव्यालोका इति । प्रथां नीतानिति । विस्तृतानित्यर्थः । परामृशदिति हेतुगर्भम् । लोचनमित्यादि । यथा नयनं लोकान् कृतार्थान् विदधाति, तथेदं व्या- ख्यानमिति भावः।
आसूत्रितानामिति । आसूत्रितानां भेदानां सम्यक्सूत्रैर्निर्दिष्टानां ध्वन्यादि. भेदरूपाणां काव्यवाणीनां या स्फुटताऽपत्तिः । स्फुटत्वप्राप्तिस्तदायिनीम् । मध्यमा हि वैखर्याः स्फुटत्वं ददाति । मध्यमामिति । मधमारूपामित्यर्थः ।
शुभमस्तु सर्वं शिवम्
इति श्रीरामषारकरचितायां लोचनटिप्पण्या तृतीय उद्योतः ॥