पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१७
तृतीयोदेद्योतः


काव्यविषये परां प्रकर्षपदवीमासादयन्ति ।

अस्फुटस्फुरितं काव्यतत्त्वमेतद्यथोदितम् ।
अशुक्नुवद्भिर्व्याकर्तुं रीतयः सम्प्रवर्तिताः ॥ ४६ ।।

 एतद्ध्वनिप्रवर्तनेन निर्णीत काव्यतत्वमस्फुटस्फुरितं सदशक्नुवद्भिः प्रतिपादयितुं वैदर्भी गौडी पाञ्चाली चेति रीतयः प्रवर्तिताः । रीतिलक्षण- विधायिनां हि काव्यतत्त्वमेतदस्फुटतया मनावस्फुरितमासीदिति लक्ष्यते तदत्र स्फुटतया सम्प्रदर्शितेनान्येन रीतिलक्षणेन न किञ्चित् ।

शब्दतत्त्वाश्रयाः काश्चिदर्थतत्त्वयुजोऽपराः ।
वृत्तयोऽपि प्रकाशन्ते ज्ञातेऽस्मिन् काव्यलक्षणे ॥ ४७ ।।

 अस्मिन् व्यङ्गयव्यञ्जकभावविवेचनमये काव्यलक्षणे ज्ञाते सति याः कश्चित्प्रसिद्धा उपनागरिकाद्याः शब्दतत्त्वाश्रया वृत्तयो याश्चार्थतत्त्वसम्ब. द्धाः कैशिक्यादयस्ताः सम्यग्रीतिपदवीमवतरन्ति । अन्यथा तु तासाम- दृष्टार्थानामिव वृत्तीनामश्रद्धेयत्वमेव स्यान्नानुभवसिद्धत्वम् । एवं स्फुट- तयैव लक्षणीयं स्वरूपमस्य ध्वनेः । यत्र शब्दानामर्थानां च केषाञ्चित्प्र-


लोचनम्

प्रवर्तिता इत्युत्तरकारिकया सम्बन्धः । अन्ये तु यच्छब्दस्थाने 'अयं' इति पठन्ति । प्रकर्षपदवीमिति । निर्माणे बोधे चेति भावः । व्याकर्तुमशक्नुवद्भिरित्यत्र हेतु:- अस्फुटं कृत्वा स्फुरितमिति । लक्ष्यत इति । रीतिर्हि गुणेष्वेव पर्यवसिता । यदाह- विशेषो गुणात्मा गुणाश्च रसपर्यवसायिन एवेति ह्युक्तं प्राग्गुणनिरूपणे श्रृङ्गार एव मधुरः' इत्यत्रेति ॥ ४५-४६ ॥

 प्रकाशन्त इति । अनुभवसिद्धतां काव्यजीवितत्वे प्रयान्तीत्यर्थः । रीतिपद-

बालप्रिया

त्पक्षे इत्युक्तेत्यादिकमेकं वाक्यमस्फुटेत्यादिवाक्यान्तरं तत्रैतदित्यनेन ध्वनेः पराम- र्शश्चेिति बोध्यम् । परां प्रकर्षपदवीमासादयन्तीत्यत्र पूरयति-निर्माणे बोधे चेति । 'अस्फुटस्फुरितं सदिति वृत्या तत्पदं हेतुगर्भमिति दर्शितं, तदेव स्पष्टयति-व्या- कर्तुमित्यादि । 'इति लक्ष्यत' इत्युक्तं वृत्तौ तत्कथमित्यत उपपादयति-रीतिर्ही. त्यादि । इत्यत्र इति ह्युक्तमिति सम्बन्धः ॥ ४५-४६ ॥

  अनुभवसिद्धत्वमिति वृत्तौ वक्ष्यमाणं फलितमर्थं मनसिकृत्य विवृणोति-अनु-