पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१८
सटीकलोचनोपेतध्वन्यालोके


तिपत्तृविशेषसंवेद्यं जात्यत्वमिव रत्नविशेषाणां । चारुत्वमनाख्येयमवभासते काव्ये तत्र ध्वनिव्यवहार इति यल्लक्षणं ध्वनेरुच्यते केनचित्तयुक्तमिति नाभिधेयतामर्हति । यतः शब्दाना स्वरूपाश्रयस्तावदक्लिष्टत्वे सत्यप्रयुक्त प्रयोगः । वाचकाश्रयस्तु प्रसादो व्यञ्जकत्वं चेति विशेषः । अर्थानां च स्फुटत्वेनावभासनं व्यङ्ग्यपरत्वं व्यङ्गयांश विशिष्टत्वं चेति विशेषः ।

 तौ च विशेषौ व्याख्यातुं शक्यते व्याख्यातौ च बहुप्रकारम् । तद्व्यतिरिक्तानाख्येयविशेषसम्भावना तु विवेकावसादभावमूलैव । यस्मा।


लोचनम्

वीमिति । तद्वदेव रसपर्यवसायित्वात् । प्रतीतिपदवीमिति वा पाठः । नागरिकया ह्युपमितेत्यनुप्रासवृत्तिः श्रृङ्गारादौ विश्राम्यति । परुषेति दीप्तेषु रौद्रादिषु कोम- लेति हास्यादौ । तथा—'वृत्तयः काव्यमातृकाः' इति यदुक्तं मुनिना तत्र रसोचित एव चेष्टाविशेषो वृत्तिः । यदाह-

'कैशिकी श्लक्ष्णनेपथ्या शृङ्गाररसम्भवा' इत्यादि ।

 इयता 'तस्याभावं जगदुरपरे' इत्यादावभावविकल्पेषु 'वृत्तयो रीतयश्च गताः श्रवणगोचरं, तदतिरिक्तः कोऽयं ध्वनिरिति । तत्र कथञ्चिदभ्युपगमः कृतः कथञ्चिच्च दूषणं दत्तमस्फुटस्फुरितमिति वचनेन । इदानीं वाचां स्थितमविषये' इति यदूचे तत्तु प्रथमो. द्ध्योते दूषितमपि दूषयति सर्वप्रपञ्चकथने हि असम्भाव्यमेवानाख्येयत्वमित्यभिप्रा- येण । अक्लिष्टत्व इति । श्रुतिकष्टाद्यभाव इत्यर्थः । अप्रयुक्तस्य प्रयोग इत्यपौनरू-

बालप्रिया

भवेत्यादि । तदेव रीतिवदेव । रीतिपदवीमवतरन्तीति प्रकाशन्त इत्यस्य विवर- णमिति वक्तव्यं, तच्च न सम्भवति तयोभिन्नार्थत्वात् । किञ्च रीतिपदवीमवतरन्तीत्यत्र काव्यलक्षणज्ञानस्य हेतुत्वमपि दुर्घटमित्यतोऽन्यथैवात्र पाठ इत्याह-प्रतीतिपद वीमिति । वृत्तेः रसपर्यवसायितां विशिष्य दर्शयति-नागरिकयेत्यादि । वृत्तौ- 'यत्रेत्यादि । रत्नविशेषाणां जात्यत्वमिव प्रतिपत्तृविशेषसंवेद्यं यत्र केषाश्चिच्छब्दा- नामर्थानां च चारूत्वमनाख्येयमेवावभासत इत्यन्वयः। 'अयुक्तमितीति । अयुक्त- त्वाद्धेतोरित्यर्थः। चारूत्वं नाम कश्चिद्विशेष इति वक्तव्यमित्यभिप्रेत्य नाभिधेयतामर्हती. त्युक्तमुपपादयति-'यत' इत्यादि । 'स्वरूपाश्रय' इति 'विशेष' इत्यनेनास्य सम्बन्धः।

 लोचने वृत्तानुवादपूर्वकमाह-इयतेत्यादि । ध्वनिरितीति । यदूचे इत्यस्यात्रा. पकर्षः । दूषयतीति । यत्रेत्यादिनाऽनूद्य तदयुक्तमित्यादिना ग्रन्थेन दूषयतीत्यर्थः । अभिप्रायेण दूषयतीति सम्बन्धः । अक्लिष्टश्व इत्येतद्विवृणोति-श्रुतीत्यादि । विवेका-