पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१६
सटीकलोचनोपेतध्वन्यालोके


 अत्र ह्युपमारूपकाभ्यां शब्दशक्त्युद्भवानुरणनरूपव्यङ्यस्य ध्वनेः संसृष्टत्वम् ।

एवं वनेः प्रभेदाः प्रभेदभेदाश्च केन शक्यन्ते ।
संख्यातुं दिङ्मात्रं तेषामिदमुक्तगस्माभिः ॥ ४४ ॥

 अनन्ता हि ध्वनेः प्रकाराः सहृदयानां व्युत्पत्तये तेषां दिङ्मात्रं कथितम् ।

इत्युक्त लक्षणो यो ध्वनिर्विवेच्यः प्रयत्नतः सद्भिः ।
सत्काव्यं कर्तुं वा ज्ञातुं वा सम्यगभियुक्तैः॥ ४५ ॥

 उक्तस्वरूपध्वनिनिरूपणनिपुणा हि सत्कवयः सहृदयांश्च नियतमेव


लोचनम्

सन्देहास्पदत्वेन सङ्कीर्णाभ्यामभिनयप्रयोगे, अभिनवप्रयोगे च रसिकेष्विति प्रसारितगी- तानामिति यः शब्दशक्त्युद्भवस्तस्य संसर्गमात्रमनुग्राह्यत्वाभावात् । 'पहिअसामाईएसु' इत्यत्र तु पदे सङ्कीर्णाभ्यां ताभ्यामुपमारूपकाभ्यां शब्दशक्तिमूलस्य ध्वनेः सङ्कीर्णत्व- मेकव्यञ्जकानुप्रवेशादिति सङ्कीर्णालङ्कारसंसृष्टः । सङ्कीर्णालङ्कारसङ्कीर्णश्चेत्यपि भेदद्वयं मन्तव्यम् ।। ४३ ॥

 एतदुपसंहरति-एवमिति । स्पष्टम् ॥ ४४ ॥

 अथ 'सहृदयमनःप्रीतये' इति यत्सूचितं तदिदानीं न शब्दमात्रमपि तु निर्यू- ढमित्याशयेनाह-इत्युक्तेति । यः प्रयत्नतो विवेच्यः अस्माभिश्चोक्तलक्षणो ध्वनि रेतदेव काव्यतत्वं यथोदितेन प्रपञ्चनिरूपणादिना व्याकर्तुमशक्नुवद्भिरलङ्कारैः रीतयः

" . बालप्रिया

द्भेदद्वयमिति । सङ्कीर्णालङ्कारसंसृष्टस्वसङ्कीर्णालङ्कारसङ्कीर्णत्वरूपभेदद्वयमित्यर्थः । सङ्कीर्णा यामुपमारूपकाभ्यामिति सम्बन्धः । 'अहिणअ' इत्यस्य अभिनय अभिनव इत्युभयथाऽपि च्छायेति दर्शयन् ध्वनिं दर्शयति-अभिनयेत्यादि । अनुग्राह्य त्वाभावादिति । उपमारूपकाभ्यां तस्येत्यनुषङ्गः ॥ ४३ ॥

 एतदिति । बहुप्रभेदकथनमित्यर्थः ॥ ४४ ॥

 सहृदयेत्यादि । 'सहृदयमनः प्रीतये तत्स्वरूपं ब्रूमः इति यदुक्तमित्यर्थः । शब्दमानं वाङ्मात्रम् । इत्युक्तलक्षण इत्यादिकारिकाद्वयमेकवाक्यमित्याह-य इत्यादि । उक्तेत्यत्र पूरयति-अस्माभिरिति । एतदिति य इत्यस्य प्रतिनि- र्देशः । यथोदितमित्यस्य व्याकर्तुमित्यनेन सम्बन्ध इति दर्शयन् विवृणोति-यथो. दितेनेत्यादि । अन्ये त्वित्यादि । इत्युक्तलक्षणोऽयं ध्वनिरिति पठन्तीत्यर्थः । एत.