पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१५
तृतीयोद्द्योतः


संसृष्टालङ्कारसंसृष्टत्वं च ध्वनेर्यथा-
अहिणअपओभरसिएसु पहिअसामाइएसु दिअहेसु ।
सोहइ पसारिअगिआणं णच्चिअं मोरवन्दाणम् ॥


लोचनम्

रसः संसृष्टालङ्कारेणानुगृह्यते । समासोक्तिमहिम्ना ह्ययमर्थः सम्पद्यते-यथा कश्चि. म्मनोरथशतप्रार्थितप्रेयसोसम्भोगावसरे जातपुलकस्तथा त्वं परार्थसम्पादनाय स्वश- रीरदान इति करुणातिशयोऽनुभावविभावसम्पदोद्दीपितः ।

 द्वितीयं भेदमुदाहरति-संसृष्टेति । अभिनवं हृद्यं पयोदानां मेघानां रसितं येषु दिवसेषु । तर पथिकान् प्रति श्यामायितेषु मोहजनकत्वाद्रात्रिरूपतामाचरितवत्सु । यदि वा पथिकानां श्यामायितं दुःखवशेन श्यामिका येभ्यः। शोभते प्रसारितग्रीवाणां मयूरवृन्दानां नृत्तम् । अभिनयप्रयोगरसिकेषु पथिकसामाजिकेषु सत्सु मयूरवृन्दा. मां प्रसारितगीतानां प्रकृष्टसारणानुपारिगीतानां तथा ग्रीवारेचकाय प्रसारितग्रीवाणां 'नृत्तं शोभते । पथिकान् प्रति श्यामा इवाचरन्तीति क्यन् । प्रत्ययेन लुप्तोपमा निर्दिष्टा । पथिकसामाजिकेष्विति कर्मधारयस्य स्पष्टत्वाद्रूपकम् । ताभ्यां ध्वनेः संसर्ग इति ग्रन्थकारस्याशयः । अत्रैवोदाहरणेऽन्यद्भेदद्वयमुदाहर्तुं शक्यमित्याशयेनोदाहरणान्तरं न दत्तम् । तथाहि-व्याघ्रादेराकृतिगणत्वे पथिकसामाजिकेष्वित्युपमारूपकाभ्यो

बालप्रिया

रसः। संसृष्टालङ्कारेणेति । समासोक्तिसंसृष्टेन विरोधालङ्कारेणेत्यर्थः । मुनिभिरपि जातस्पृहैरवलोकितानीत्यनेन दयावीरस्य परिपोषप्रतीत्या विरोधस्यानुग्राहकत्वं स्पष्ट. मिति मनसि कृत्य समासोक्तेस्तदुपपादयति-समासोक्तिमहिम्नेत्यादि । इतीति । इत्यर्थादित्यर्थः । अनुभावेत्यादि । अनुभावः सान्द्रपुलकाविर्भावः । आलम्बनविभावः सिंही । उद्दीपनविभावो दन्तक्षतादिरिति बोध्यम् ।

 द्वितीयमिति । संसृष्टालङ्कारसंसृष्टत्वरूपमित्यर्थः । अभिनवेत्यादि वर्षावर्ण- मम् । अत्रादौ वाच्यमर्थ व्यावष्टे-अभिनवमित्यादि। पथिकान् विरहिणः । श्यामायितेवित्यत्र रात्रिवाचकात् श्यामाशब्दादाचारार्थे क्यजित्यभिप्रेत्य व्याच. ष्टे-मोहेत्यादि । श्यामायितमित्यस्य श्यामिकेत्यर्थमभिप्रेत्याह-यदि वेत्यादि । श्यामिका वर्णभेदः । छायान्तरदर्शनेनात्र व्यङ्गयमर्थं दर्शयति-अभिनयप्रयोगे. त्यादि । प्रसारितगीतानामित्यस्य व्याख्यानम्-प्रकृष्टेत्यादि । अत्र पक्षे प्रसारित- -ग्रीवाणामिति च योज्यमित्याह-तथेत्यादि । ध्वनेः संसृष्टालङ्कारसंसृष्टत्वं विवृणो- ति-पथिकानित्यादि । रूपकमिति । पथिकेषु सामाजिकत्वारोपादिति भावः । ध्वनेरिति । अभिनयप्रयोगेस्याद्युक्तस्य व्यङ्गयस्येत्यर्थः । संसर्गः संसृष्टिः । अन्य.