पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१४
सटीकलोचनोपेतध्वन्यालोके


दन्तक्षतानि करजैश्च विपाटितानि
प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे ।

दत्तानि रक्तमनसा मृगराजवध्वा
जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥

 अत्र हि समासोक्तिसंसृष्टेन विरोधालंकारेण संकीर्णत्यालक्ष्य कमव्य. ङ्गस्य ध्वनेः प्रकाशनम् । दयावीरस्य परमार्थतो वाक्यार्थीभूतत्वात् ।


लोचनम्

स्वप्रभेदैगुणीभूतव्यङ्गयेन वा सङ्कीर्णाना संसृष्टानां च ध्वनीनां सङ्कीर्णत्वं संसृष्टत्वं च दुर्लक्षमिति विस्पष्टोदाहरणं न भवतीत्यभिप्रायेणालङ्कारस्यालंकारेण संसृष्टस्य संकी. र्णस्य वा ध्वनौ संकरसंवर्गौ प्रदर्शनीयौ ।

 तदस्मिन् भेदचतुष्टये प्रथमं भेदमुदाहरति-दन्तक्षतानीति बोधिसत्त्वस्य स्वकिशोरभक्षणप्रवृत्तां सिंही प्रति निजशरीरं वितीर्णवतः केनचिच्चाटुकं क्रियते । प्रौद्भूतः सान्द्रः पुलकः परार्थसम्पत्तिजेनानन्दभरेण यत्र । रक्त रूघिरे मनोऽभिलाषो यस्याः, अनुरक्तं च मनो यस्याः । मुनयश्चोद्बोधितमदनावेशाश्चेति विरोधः । जात स्पृहैरिति च वयमपि कदाचिदेवं कारुणिकपदवीमधिरोक्ष्यामस्तदा सत्यतो मुनयो भविष्याम इति मनोराज्ययुक्तैः । समायोक्तिश्च नायिकत्तान्तप्रतीतेः । दयावीर स्येति । दयाप्रयुक्तत्वादत्र धर्मस्य धर्मवीर एव दयावीरशब्देनोक्तः । वीरश्चात्र रसः, उत्साहस्यैव स्थायित्वादिति भावः । दयावीरशब्देन वा शान्तं व्यपदिशति । सोऽत्र

बालप्रिया

संसृष्टिसङ्करौ विवक्षितावित्यनुषङ्गः । अयमर्थ इति पूर्वेण सम्बन्धः। नन्वेवं वृत्तौ संसृष्टालङ्कारान्तरसङ्कीर्णत्वादिभेदमात्रप्रदर्शने किं बीजमित्यत आह-स्वप्रभेदाना मित्यादि : ध्वनिनेति । ध्वनिना सहेत्यर्थः । दुर्ल्लक्षमितीति । दुर्लक्षत्वाद्धेतौ- रित्यर्थः । विस्पष्टेति । सुस्पष्टेत्यर्थः । प्रदर्शनीयौ प्रदर्शयितुं शक्यौ ।

 प्रथमं भेदमिति। ससृष्टालङ्कारसङ्कीर्णत्वरूपं भेदमित्यर्थः । परार्थसम्पत्तिजे. नेति । परपरित्राणजन्येनेत्यर्थः । नायिकासम्भोगजन्येन चेति । भवतशरीर इत्यनेन कामिनश्शरीर इति, मृगराजवध्वेत्यनेन मृगाख्यपुतातिविशेषस्य वध्वेति च गम्यते । मुनिभिरपि जातस्पृहैरित्यत्र विषयविरक्तैरप्युबुद्धकामैरित्यर्थप्रतीत्या विरोध इत्याह- मुनयश्चेत्यादि । प्रकृतमर्थमाह-जातस्पृहैरित्यादि । मनोराज्ययुक्तश्चेति योजना। मुनिना दयावीरस्याकथनादाह-दयेत्यादि । धर्मस्य दयाप्रयुक्तत्वादत्र दयावीरशब्देन धर्मवीर एवोक्त इति सम्बन्धः । पक्षान्तरमाह-दयावीरशब्देनेत्यादि । समायो- तिसंसृष्टेनेत्यादिवृत्युक्तं विवृणोति--सोऽत्रेत्यादि । स रसः धर्मवीरश्शान्तो वा