पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१३
तृतीयोद्द्योतः


 अत्र हि मैत्रीपदमविवक्षितवाच्यो ध्वनिः । पदान्तरेष्वलङ्कारान्त- राणि । संसृष्टालंकारान्तरसंकीर्णो ध्वनिर्यथा-


लोचनम्

दग्धो ग्राम्यप्राय इत्यर्थः । प्रियतमोऽपि रतान्तेऽङ्गानुकूलः संवाहनादिना प्रार्थनार्थं चाटुकार एवमेव सुरतग्लानि हरति । कूजितं चानङ्गीकरणवचनादि मधुरध्वनितं दीर्घी. करोति । चाटुकरणावसरे च स्फुटितं विकसितं यत्कमलकान्तिधारिवदनं तस्य यामो- दमैत्री सहजसौरभपरिचयस्तेन कषाय उपरत्तो भवति । अङ्गेषु चातुष्षष्टिकप्रयो- गेष्वनुकूलः । एवं शब्दरूपगन्धस्पर्शा यत्र हृद्या यत्र च पवनोऽपि तथा नागरिकः स तवाऽवश्यमभिगन्तव्यो देश इति मेघदूते मेघं प्रति कामिन इयमुक्तिः । उदाहरणे लक्षणं योजयति-मैत्रीपदमिति । हिशब्दोऽनन्तरं पठितव्य इत्युक्तमेव । अल- ङ्कारान्तराणीति । उत्प्रेक्षास्वभावोक्तिरूपकोपमाः क्रमेणेत्यर्थः । एवमियता.

सगुणीभूतव्यङ्गयैः सालङ्कारैः सहप्रभेदैः स्वैः ।
सङ्करसंसृष्टिभ्याम् ।

 इत्येतदन्तं व्याख्यायोदाहरणानि च निरूप्य 'पुनरपि' इति यत्कारिकाभागे पद- द्वयं तस्यार्थं प्रकाशयत्युदाहरणद्वारेणैव-संसृष्टेत्यादि । पुनःशब्दस्यायमर्थः- केवलं ध्वनेः स्वप्रभेदादिभिः संसृष्टिसङ्करौ विवक्षितौ यावत्तेषामन्योन्यमपि स्वप्रभेदानां

बालप्रिया

कारयतीति । एतदेव विवृणोति-प्रियतमोऽपीत्यादि । तेनेति । वातेनेत्यर्थः । परम्परेत्यादि । स्त्रीणां प्रियतमस्य च सम्भोगाभिलाषोद्दीपकत्वादिति भावः । सिप्रा. परिचित इति सिप्राया नायिकात्वं गम्यते । इतीति हेतौ। उपमाने प्रियत- मेऽपि विशेषणानि योजयति-प्रियतमोऽपीत्यादि। संवाहनादिना अङ्गानुकूल इति योजना । चाटुकार इति । चाटुवाक्यकर्तेत्यर्थः । अनङ्गीकरणवचनेति । माऽल. मित्यादिवचनेनेत्यर्थः । मदकलमित्यस्य विवरणम्-मधुरध्वनितमिति । चाट्वि- त्यादि । प्रियतम चाटवाक्यश्रवणावसर इत्यर्थः। विकसितमिति । चोटुश्रवणज. नितस्मितेनेति भावः । कमलपदं साध्यवसानलक्षणया मुखपरमित्याह-कमलेत्यादि । वदनमिति । स्त्रीणामिति शेषः । अङ्गानुकूल इत्येतदन्यथाऽपि व्याचष्टे--अङ्गेष्वि- त्यादि । श्लोकस्यास्य सारार्थं दर्शयन् विवरणमुपसंहरति-एवमित्यादि । स देश इति । उज्जयिनीदेश इत्यर्थः । उत्प्रेक्षेत्यादि । पटु दीघीकुर्वन्नित्यत्र गम्योत्प्रेक्षा, प्रत्यूषस्वभावोक्तिः, अङ्गानुकूलः स्निग्ध इत्यस्य वायावारोपाद्रूपकं, यद्वा-रूपकमित्यस्य रूपकातिशयोक्तिरित्यर्थः । कमलपदेन मुखस्य बोधनात्तत्र सा बोध्या। प्रियतम इवेत्युपमा चेत्यर्थः ।

 संसृष्टेत्यादिग्रन्थमवतारयति-एवमियतेत्यादि । तेषामन्यान्यमपीति ।

 ६५ व०