पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१२
सटीकलोचनोपेतध्वन्यालोके


यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ।।


लोचनम्

न्तर्वर्तमानमकरन्दभरेण । तथा स्फुरितानि विकसितानि नयनहारीणि यानि कमलानि तेषां य आमोदस्तेन या मैत्री अभ्यासाङ्गावियोगारस्परानुकूल्यलाभस्तेन कषाय उपरक्तो मकरन्देन च कषायवर्णीकृतः । स्त्रीणामिति । सर्वस्य तथाविधस्य त्रैलोक्य- सारभूतस्य य एवं करोति सुरतकृतां ग्लानिं तान्ति हरति, अथ च तद्विषयां ग्लानि पुनः सम्भोगाभिलाषोद्दीपनेन हरति ।

 न च प्रसह्यप्रभुततयापि त्वङ्गानुकूलो हृद्यस्पर्शः हृदयान्तर्भूतश्च । प्रियतमे तद्विषये प्रार्थनार्थं चाटूनि कारयति । प्रियतमोऽपि तत्पवनस्पर्शप्रबुद्धसम्भोगाभिलाषः । प्रार्थनार्थं चाटूनि करोतीति तेन तथा कार्यत इति परस्परानुरागप्राणश्रृङ्गारसर्वस्वभू- तोऽसौ पवनः । युक्तं चैतत्तस्य यतः सिप्रापरिचितोऽसौ वात इति नागरिको न त्ववि-

बालप्रिया

क्षितमित्याह-तथेत्यादि । भावार्थमाह-नयनेति । मैत्रीपदमुख्यार्थस्यात्र बाधा. त्तत्पदेन विवक्षितं दर्शयति-अभ्यासङ्गेत्यादि । अभ्यासङ्गस्य संश्लेषस्यावियोगोऽ विच्छेदः अविच्छिन्नस्संश्लेष इति यावत् । तेन परस्परानुकूल्यस्य परस्परोप- कारित्वस्य लाभ इत्यर्थः । अत्राविच्छिन्नस्संश्लेषो लक्ष्यार्थः, परस्पनुकूल्यलाभस्तु व्यंग्य इति विवेकः । उपरक्तः सम्बद्धः । अर्थान्तरं चाह-मकरन्देने. त्यादि । पीतमिश्रो रक्तः कषायवर्णः । सर्वस्येति बहुवचनार्थकथनम् । तथा विधस्य स्त्रीत्वविशिष्टस्य । त्रैलोक्येत्यादि गम्यार्थकथनम् । सुरतग्लानिमित्येत- त्सुरतकृतां ग्लानिं सुरतविषयां ग्लानिमित्युभयथा विवृणोति-सुरतकृतामित्यादि । तान्तमिति । शारीरं श्रममित्यर्थः । ग्लानिमिति । अनुत्साहमित्यर्थः ।

 न चेति : हरतीत्यनुषज्यते । अङ्गस्य हृदयस्यानुकूल इत्यर्थोऽपीत्याह- हृद्यान्तर्भूत इति । स्निग्ध इत्यर्थः । प्रियतमे इति च पदच्छेदमभिप्रेत्य प्रियतमे प्रार्थना चाटुकार इति वातविशेषणतयाऽपि योजयति-प्रियतम इत्यादि । प्रियतम इति सप्तम्यन्तस्य विवरणम्-तद्विषय इति । प्रार्थनार्थमिति । स्त्रीणां सम्भो गप्रार्थनोत्पादनमित्यर्थः । चाटुकार इति ण्यन्तात्कर्तरि प्रत्यय इत्याह-चाटूनि


 १. अर्थ शब्दो 'नगरात्कुत्पनप्रावीण्ययोः, इति पाणिनीयसूत्रेण ठका निष्पन्नः । तत्रभवता भट्टै जिदीक्षितेन तु नागरिकशब्दश्चौरशिल्पिनोरुदाहृतो न तु सामान्यतो निपुणे । अत एव कालिदासेनापि तादृशेऽर्थे नगरपदं प्रायोजि-'नाराणामुद्दामानि प्रथयति शिलावेश्मभिर्योवनानि' इति मेघदूते ।