पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५११
तृतीयोद्द्योतः


वाच्यालङ्कारभाञ्जि कानिचिच्च ध्वनिप्रभेदयुक्तानि । यथा-

दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्त्रीकषायः ।


लोचनम्

त्यलङ्कारेण वा ध्वनिना वा पर्यायेण द्वाभ्यामपि वा युगपत्पदविश्रान्ताभ्यां भाव्य- मिति त्रयो भेदाः । एतद्गर्भीकृत्य सावधारणमाह-पदापेक्षयैवेति । यत्रानुग्राह्या- नुग्राहकभावं प्रत्याशङ्कापि नावतरति तं तृतीयमेव प्रकारमुदाहर्तुमुपक्रमते-यत्र हीति । यस्माद्यत्र कानिचिदलङ्कारभाजि कानिचिद्ध्व नियुक्तानि, यथा दीर्घीकुर्वन्नि- त्यत्रेति । तथाविधपदापेक्षयैव वाच्यालङ्कारसंसृष्टत्वमित्यावृत्त्या पूर्वग्रन्थेन सम्बन्धः कर्तव्यः । अत्र हीति । अत्रत्यो हिशब्दो मैत्रीपदमित्यस्यानन्तरं योज्य इति ग्रन्थ- सङ्गतिः

 दीर्घीकुर्वन्निति । सिप्रावातेन हि दूरमप्यसौ शब्दो नीयते, तथा सुकु. मारपवनस्पर्शजातहर्षाः चिरं कूजन्ति, तत्कूजितं च वातान्दोलितसिप्रातरङ्गजमधुर- शब्दमिश्रं भवतीति दीर्घत्वम् । पट्विति । तथासौ सुकुमारो वायुर्येन तज्जः शब्दः सारसकूजितमपि नाभिभवति प्रत्युत तत्सब्रह्मचारी तदेव दीपयति । न च दीपनं तदीयमनुपयोगि यतस्तन्मदेन कलं मधुरमाकर्णनीयम् । प्रत्यूषेष्विति । प्रभातस्य तथाविधसेवावसरत्वम् । बहुवचनं सदैव तत्रैषा हृद्यतेति निरूपयति । स्फुटितान्य.

बालप्रिया

तदभाव इति । तत्सङ्कराभाव इत्यर्थः। पर्यायेणेति । पदविश्रान्तेन भाव्यमिति शेषः । तृतीयमेवेति । द्वाभ्यामपि युगपत् पङ्विश्रान्ताभ्यो भाव्यमित्युक्तमेवे- त्यर्थः । 'यत्रे त्यादिवाक्यं सङ्गमयति-यस्मादित्यादि । यस्मादिति हिशब्दार्थ कथनम् । आवृत्येति । वाच्यालङ्कारसंसृष्टत्वं पदापेक्षयैवेति पदानाभावृत्तिः तत्र पदापेक्षयेत्यस्य तथाविधपदापेक्षयेत्यर्थश्चेति भावः । इदमुपलक्षणं तत्रेति शेषश्च बोध्यः । दीर्घाकुनित्यनेनोक्तं सिप्रावातहेतुकं कूजितस्य दीर्घत्वं दैशिक कालिकं स्वसजातीयसंवलनकृतं चेति त्रिविधमिति विवृणोति--सिप्रावातेनेत्यादि दीर्घत्व- मित्यन्तेन । पटु समर्थ दीर्घीकुर्वन्निति क्रियाविशेषणमित्यभिप्रायेण व्याचष्टे-तथे- त्यादि । सुकुमारः मन्दः । दीपयति पोषयति यतस्तन्मधुरमतो नानुपयोगीति सम्बन्धः । तथाविधसेवेति'। सुरतग्लानिहरणादिरूपसेवेत्यर्थः। तत्रेति । उज्जयि- न्यामित्यर्थः । निरूपयति दर्शयति । स्फुटितानोत्यस्य त्रुटितानीत्यर्थं मनसि कृत्य तत्र हेतुं गम्यं दर्शयति-अन्तरित्यादि । स्फुटितानीत्यनेनार्थान्तरं च विव-