पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१०
सटीकलोचनोपेतध्वन्यालोके


 इत्यत्र विरोधालङ्कारणार्थान्तरसंक्रमितवाच्यस्य ध्वनिप्रभेदस्य सङ्कीर्णत्वम् ।

 वाच्यालङ्कारसंसृष्टत्वं च पदापेक्षयैव ! यत्र हि कानिचित्पदानि


लोचनम्

स्तेन तुल्यमपि न लब्धमास्तां तावत्तजातीयम् ।

 एवं प्रथममेव परमेश्वरभक्तिभाजः कुतूहलमात्रावलम्बितकविप्रामाणिकोभयवृत्तेः पुनरपि परमेश्वरभक्तिविश्रान्तिरेव युक्तेति मन्वानस्येय मुक्तिः । सकलप्रमाणपरिनि श्चितदृष्टादृष्टविषयविशेषजं यत्सुखं, यदपि वा लोकोत्तरं रसचर्वणात्मकं तत उभयतोऽपि परमेश्वरविश्रान्त्यानन्दः प्रकृष्यते तदानन्दविपुण्मात्रावभासो हि रसास्वाद इत्युक्तं प्रागस्माभिः । लौकिकं तु सुखं ततोऽपि निकृष्टप्रायं बहुतरदुःखानुषङ्गादिति तात्पर्यम् । तत्रैव दृष्टिशब्दापेक्षयैकपदानुप्रवेशः। दृष्टिमवलम्ब्य निवर्णन मिति विरोधालङ्कारो वाश्रीयताम् , अन्धपदन्यासेन दृष्टि शब्दोऽत्यन्ततिरस्कृतवाच्यो वास्तु इत्येकतरनिश्चये नास्ति प्रमाणम् , प्रकारद्वयेनापि हृद्यत्वात् । न च पूर्वत्राप्येवं वाच्यम् । नवाशब्देन शब्दशक्त्यनुरणनतया विरोधस्य सर्वथावलम्बनात् ।

 एवं सङ्करं त्रिविधमुदाहृत्य संसृष्टिमुदाहरति-वाच्येति । सकलवाक्ये हि यद्यलङ्कारोऽपि व्यङ्गयार्थोऽपि प्रधानं तदानुग्राह्यानुग्राहकत्वसङ्करस्तदभावे त्वसङ्गतिरि-

बालप्रिया

तस्य परमानन्दरूपत्वं च भक्तिरसायनादिग्रन्थेषु प्रदर्शितम् ।

 श्लोकस्यास्यावतारिकामाह-एवमित्यादि। एवमियमुक्तिरिति सम्बन्धः । श्लोक- स्यास्य पार्यन्तिकं तात्पर्यार्थमाह-सकलेत्यादि । वृत्तौ सङ्कीर्णत्वमित्यनेनानुग्राह्यानुपग्रा- हकभावेन सङ्करः एकपदानुप्रवेशसङ्करश्च विवक्षित इति दर्शयति-तत्रेत्यादि। तत्रैव उक्तश्लोक एव । एकपदानुप्रवेश इति । विरोधालङ्कारेण सहार्थान्तरसङ्क्रमितवा- च्यस्य ध्वनेरिति शेषः । सन्देहसङ्करमप्यत्र दर्शयति-दृष्टिमवलम्ब्येत्यादि । विरो- धालङ्कारो वेति । ते अवलम्ब्य निर्वर्णयन्त इत्यत्र ते इति तत्पदेन दृष्टिपदवाच्या- र्थस्य दर्शनस्य परामर्शे दर्शनमवलम्ब्य पश्यन्त इति विरुद्धार्थस्य प्रतीत्या विरोधालङ्कारो वेत्यर्थः । वक्ष्यमाणमर्थमादायात्र विरोधपरिहारः । अन्धेत्यादि । निःश्वासान्धइत्यादावन्धादिपदेनेवात्यन्ततिरस्कृतवाच्येन दृष्टिपदेन लक्ष्यस्य प्रतिभारूपार्थस्य परा-मर्शेऽत्यन्ततिरस्कृतवाच्यो ध्वनिर्वेत्यर्थः । पूर्वत्रापीति । या दृष्टिः रसान् रसयितुं व्यापारवतीत्यत्रापीत्यर्थः। एवमिति । सन्देहसङ्कर इत्यर्थः। नवेत्यादि । नैवाशब्दे. नावलम्बनादिति सम्बन्धः । नवेति शब्देन द्योतनादित्यर्थः । शब्दशक्त्यनुरणनतः येति विशेषणे तृतीया।

 उदाहरतीति । दर्शयतीत्यर्थः । सकलवाक्य इति । सम्पूर्णवाक्य इत्यर्थः ।