पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०९
तृतीयोद्द्योतः-


ते द्वे अप्यवलम्ब्य विश्वमनिशं निर्वर्णयन्तो वयं
श्रान्ता नैव च लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखम् ॥


लोचनम्

लङ्कारेण' इत्यादिना। या चैवंविधा दृष्टिः परिनिष्ठितोऽचलः अर्थविषये निश्चेतव्ये विषये उन्मेषो यस्याः। तथा परिनिष्ठिते लोकप्रसिद्धेऽर्थे न तु कविवदपूर्वस्मिन्नर्थे उन्मेषो यस्याः सा । विपश्चिताग्म्रियं वैपश्चिती। ते अवलम्ब्येति । कवीनामिति वैप. श्वितीति वचनेन नाहं कविर्न पण्डित इत्यात्मनोऽनौद्धरय ध्वन्यते । अनात्मीयमपि दरिद्रगृह इवोपकरणतयान्यत आहृतमेतन्मया दृष्टिद्वयमित्यर्थः । ते द्वे अपीति । न ह्येकया दृष्टया सम्यङ्निर्वर्णनं निर्वहति । विश्वमित्यशेषम् । अनिशमिति। पुनः पुनरनवरतम् ..। निर्वर्णयन्तो वर्णनया, तथा निश्चितार्थं वर्णयन्तः इदमित्यमिति परामर्शानुमानादिना निर्भज्य निर्वर्णनं किमत्र सारं स्यादिति तिलशस्तिलशो विचयनम् । यच्च निर्वर्ण्यते तत्खलु मध्ये व्यापार्यमाणया मध्ये चार्थविशेषु निश्चितोन्मेषया निश्च- लया दृष्टया सम्यङ्निर्वर्णितं भवति । वयमिति । मिथ्यातत्वदृष्टयाहरणव्यसनिन इत्यर्थः । श्रान्ता इति । न केवलं सारं न लब्धं यावत्प्रत्युत खेदः प्राप्त इति भावः । चशब्दस्तुशब्दस्यार्थे । अब्धिशयनेति । योगनिद्रया त्वमत एव सारस्वरूपवेदी स्वरूपावस्थित इत्यर्थः । श्रान्तस्य शयनस्थितं प्रति बहुमानो भवति । त्वद्भक्तीति । स्वमेव परमात्मस्वरूपो विश्वसारस्तस्य भक्तिः श्रद्धादिपूर्वक उपासनाक्रमजस्तदावेश-

बालप्रिया

अर्थविषय इत्यस्यार्थमाह-निश्चेतव्य इत्यादि । अन्यथापि व्याचष्टे-तथेत्यादि । ते अवलम्ब्येत्यनेन ध्वनितमर्थमुक्त्वा तद्वाच्यार्यमाह-अनात्मीयमित्यादि । गृह इवेति । अविद्यमानं मण्डनादिकमिति शेषः। वे अपीत्युक्तेः फलमाह-त हीत्यादि । अनिशमित्यस्यार्थंद्वयमाह-पुनरित्यादि । कविदृष्टयवलम्बनेन निर्वर्णनं द्वेधा विवृणोति-निर्वर्णयन्तो वर्णनयेति । तथेत्यादीति च । वर्णनया निवर्ण- यन्तो वीक्षमाणाः । विपश्चिदृष्टयवलम्बनेन निर्वर्णनं व्याख्याति-इदमित्थमि- त्यादि । निर्भज्य निवर्णनमेव स्फुटयति-किमत्रेत्यादि । दृष्टिद्वयालम्बनेन निर्वर्ण- नस्य फलम्-न होकयेत्यादि । पूर्वोक्तमेव विशदयति-यच्चेत्यादि । वयमित्यस्य भावार्थमाह-मिथ्येत्यादि । मिथ्यादृष्टिः कविदृष्टिः तत्वदृष्टिः विपश्चिदृष्टिः, तयोराह- रणे व्यसनिनस्तात्पर्यवन्त इत्यर्थः । तुशब्दस्यार्थ इति । विशेषरूपार्थबोधक इत्यर्थः । अब्धिशयनेत्यस्य गम्यार्थमाह-योगनिद्वयेत्यादि । अत एवेति । त्वद्भक्तितुल्यस्य सुखस्याभावादेवेत्यर्थः । सारेति । विश्वसारभूतं यत्स्वस्वरूपं तद्वे. दीत्यर्थः । व्यंग्यान्तरं च दर्शयति-आन्तस्येत्यादि । तदावेश इति । तद्विषयक- प्रेमातिशय इत्यर्थः। यद्वा-अन्तःकरणवृत्तेस्तदाकाराकारितत्वमित्यर्थः । भक्तेः स्वरूपं