पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०८
सटीकलोचनोपेतध्वन्यालोके


या व्यापारवती रसान् रसयितुं काचित्कवीनां नवा
दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती।


लोचनम्

व्यापारवतीति । निष्पादनप्राणो हि रस इत्युक्तम् । तत्र विभावादियोजनात्मिका वर्णना, ततः प्रभृति घटनापर्यन्ता क्रिया व्यापारः, तेन सततयुक्ता। रसानिति । रस्यमानतासारान् स्थायिभावान् रसयितुं रस्यमानतापत्तियोग्यान् कर्तुम् ।काचि दिति लोकवार्तापतितबोधावस्थात्यागेनोन्मीलन्ती। अत एव ते कवयः वर्णनायोगात् तेषाम् । नवेति । क्षणेक्षणे नूतनैर्नूतनैर्वैचित्र्यैर्जगन्त्यासूत्रयन्ती । दृष्टिरिति ।प्रति भारूपा, तत्र दृष्टिश्चाक्षुषं ज्ञानं षाडवादि रसयतीति विरोधालङ्कारोऽत एवं नवा। तदनुगृहीतश्च ध्वनिः, तथाहि चाक्षुषं ज्ञानं नाविवक्षितमत्यन्तमसम्भवा भावात् । न चान्यपरम् ; अपि त्वर्थान्तरे ऐन्द्रियकविज्ञानाभ्यासोल्लसिते प्रतिमा- नलक्षणेऽर्थे संक्रान्तम् । संक्रमणे च विरोधोऽनुग्राहक एव । तद्वक्ष्यति–'विरोधा.

बालप्रिया

विभावादीति। विभावानुभावद्यर्थेत्यर्थः । घटनेति । तत्तत्पदसघटनेत्यर्थः । क्रियेति । तत्तदनुसन्धानात्मिका मनःक्रियेत्यर्थः । नित्य योगे बतुबित्याह-तेने त्यादि । युक्तत्वं जन्यजनकभावसम्बन्धेन बोध्यम् । रसानित्यस्य वाच्यार्थविवरणम्- रस्यमानतासारानिति । रसपदेन प्रकृते विवक्षितमाह-स्थायिभावानिति । लोकयात्रापतितबोधेति । लौकिकतत्तद्वस्तुविषयकज्ञानेत्यर्थः । अतएवेति । दृष्टद्युः न्मीलनादेवेत्यर्थः । कविपदयोगार्थमाह-वर्णनायोगादिति । आसूत्रयन्ती प्रका- शयन्ती । वक्ष्यमाणं सङ्क्रमणं मनसि कृत्याह-प्रतिभारूपेति । अत्र दृष्टिश्चाक्षुः षज्ञानम् । रसान् रसयितुं षाडवादिपेयद्रव्याणि मधुरादिरसयुक्तानि कर्तुम् , यद्वा- षाड्वादिगतमधुरादिरसानास्वादयितुं व्यापारवतीति विरुद्धार्थस्य प्रतीत्या विरोधाभासा. लङ्कार इत्याह-तत्र दृष्टिरित्यादि । विरोधद्योतकमाह-अतएवेत्यादि । नवेति विरोधद्योतकमिति भावः । ध्वनिः दृष्टिरित्यर्थान्तरसङ्क्रमितवाच्यध्वनिः । नावि. वक्षितमत्यन्तमिति । अत्यन्ततिरस्कृतं नेत्यर्थः । असम्भवाभावादिति । कविंगतस्य चन्द्रोद्यानादिचाक्षुषज्ञानस्यापि रसनिष्पादनोपयोगित्वादिति भावः ।न चान्यपरमिति । व्यंग्यपरं विवक्षितं च नेत्यर्थः । अपितु प्रतिमानलक्षणे अर्थान्तरे सङक्रान्तमिति । दृष्टिपदमत्र प्रतिभात्वेन रूपेण ज्ञानं लक्षयतीत्यर्थः । प्रतिभानस्यातिस्फुटत्वादिकमत्र व्यंग्यम् । मुख्यार्थसम्बन्धं दर्शयितुमाह-ऐन्द्रि. यकेत्यादि । ऐन्द्रियकं विज्ञानं लौकिकतत्तद्विषयकचाक्षुषज्ञानं तस्याभ्यास आवृत्तिः तेनोलसिते प्रकाशिते इत्यर्थः । उक्तमर्थं वृत्त्या सङ्गमयति-तद्वद्यत्यतीत्यादि ।