पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०७
तृतीयोद्द्योतः


 वाच्यालङ्कारकीर्णत्वमलक्ष्यक्रमव्यङ्ग्यापेक्षया रसवति साल- ङ्कारे काव्ये सर्वत्र सुव्यवस्थितम् । प्रभेदान्तराणामपि कदाचित्सङ्की. र्णत्वं भवत्येव । यथा ममैव-


लोचनम्

नेन संकरावकाशं निराकरोति । सुहृच्छब्देन साक्षिशब्देन चाविवक्षितवाच्यो ध्वनिः 'ते' इतिपदेनासाधारणगुणगणोऽभिव्यक्तोऽपि गुणत्वमवलम्बते, वाच्यस्यैव स्मरणस्य प्राधान्येन चारुत्वहेतुत्वात् । 'जाने इत्यनेनोत्प्रेक्ष्यमाणानन्तधर्मव्यञ्जकेनापि वाच्यमे. वोत्प्रेक्षणरूपं प्रधानीक्रियते । एवं गुणीभूतव्यङ्गयेऽपि चत्वारो भेदा उदाहृताः ।

 अधुनालंकारगतास्तान्दर्शयति --वाच्यालङ्कारेति । व्यङ्गयत्वे त्वलंकाराणा- मुक्तभेदाष्टक एवान्तर्भाव इति वाच्य शब्दस्याशयः। काव्य इति । एवंविधमेव हि काव्यं भवति । सुव्यवस्थितमिति । विवक्षा तत्परत्वेन' इति द्वितीयोद्योतमू.. लोदाहरणेभ्यः संकरऋयं संसृष्टिश्च लभ्यत एव । 'चलापाङ्गां दृष्टिम्' इत्यत्र हि रूप. कव्यतिरेकस्य प्राग्व्याख्यातस्य शृङ्गारानुग्राहकत्वं स्वभावोक्तेः श्रृङ्गारस्य चैकानु. प्रवेशः । 'उप्पह जाया' इति गाथायां पामरस्वभावोक्तिर्वा ध्वनिर्वेति प्रकरणाद्यभावे एकतरग्राहकं प्रमाणं नास्ति ।

 यद्यप्यलङ्कारो रसमवश्यमनुगृह्णाति, तथापि 'नाति निर्वहणैषिता' इति यदभि- प्रायेणोक्तं तत्र सङ्करासम्भवात्संसृष्टिरेवालङ्कारेण रसध्वनेः । यथा-'बाहुलतिकापाशेन बद्ध्वा दृढम्' इत्यत्र । प्रभेदान्तराणामपीति । रसादिध्वनिव्यतिरिक्तानाम् ।

बालप्रिया

सुहृत्वसाक्षित्वयोरचेतनेषु लतावेश्मसु बाध त्सुहृत्पदमुपकारित्वेन साक्षिपदमासनत्वेन रूपेण च लक्षयति । उपकारादिगतातिशयो व्यंग्यश्चेत्यनयोः पदयोर्ध्वनिरित्यर्थः । पदेनाभिव्यक्त इति सम्बन्धः । गुणत्वमिति । वाच्यं प्रतीति शेषः ।

 वाच्यालङ्कारसङ्कीर्णत्वमित्यत्रालङ्कारे वाच्यत्वविशेषणस्य फलं दर्शयति-व्य. ङ्गयत्व इत्यादि । उक्तभेदाष्टक इति । सङ्करसंसृष्टिकृतभेदाष्टक इत्यर्थः । एवंवि- धमिति । रसवत्सालङ्कारं चेत्यर्थः । सुव्यवस्थितत्वं दर्शयति-विवक्षेत्यादि । शृङ्गारानुग्राहकत्वमितेि । शृङ्गारेण सहानुग्राह्यानुग्राहकभाव इत्यर्थः । नायकान्त. रगततत्तच्चेष्टादर्शनस्य रत्युद्दीपकत्वादिति भावः । इति गाथायामिति । पूर्वोदाह्र- तायामिति शेषः। प्रकरणाद्यंभाव इति निमित्ते सप्तमी ।

 एवं त्रिविधस्य वाच्यालङ्कारसङ्करस्योदाहरणं प्रदर्श्य, तसंसृष्टेविषयमुदाहरणं च दर्शयिष्यन्नाह-यद्यपीत्यादि । यदभिप्रायेणेति ।अनुग्राहकत्वाभावाभिप्राये. णेत्यर्थः । इत्यत्रेति । अत्र हि रूपकेण रसस्य संसृष्टिरेवेत्यर्थः। वक्ष्यमाणोपपत्यर्थ- माह-निष्पादनेत्यादि । व्यापारवतीत्यादीनि पदानि विवृणोति-तत्रेत्यादिना ।