पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०६
सटीकलोचनोपेतध्वन्यालोके


न्तरवत् । यथाहि ध्वनिप्रभेदान्तराणि परस्परं सङ्कीर्यन्ते पदार्थवाक्यार्था- श्रयत्वेन च न विरुद्धानि ।

 किं चैकव्यङ्गयाश्रयत्वे तु प्रधानगुणगावो विरुध्यते न तु व्यङ्गय- भेदापेक्षया ततोऽप्यस्य न विरोधः । अयं च सङ्करसंसृष्टिव्यवहारो बहू- नामेकत्र वाच्यवाचकभाव इव व्यङ्गयव्यञ्जकभावेऽपि निर्विरोध एव मन्तव्यः । यत्र तु पदानि कानिचिदविवक्षितवाच्यान्यनुरणनरूपव्यङ्गयः वाच्यानि वा तत्र ध्वनिगुणीभूतव्यञ्जकयोः संसृष्टत्वम् ।यथा-'तेषां गोपवधूविलाससुहृदाम्' इत्यादौ । अत्र हि 'विलाससुहृदा' 'राधारहःसा- क्षिणाम्' इत्येते पदे ध्वनिप्रभेदरूपे 'ते' 'जाने' इत्येते च पदे गुणीभूत व्यङ्गयरूपे ।


लोचनम्

भिव्यञ्जनात् । अत एव चेति । यतोऽत्र लक्ष्ये दृश्यते तत इत्यर्थः। ननु व्यङ्गयं गुणीभूतं प्रधान चेति विरुद्धमेव तदृश्यमानमप्युक्त्तत्वान्न श्रद्धेयमित्याशङ्कय व्यञ्ज- कभेदात्तावन्न विरोध इति दर्शयति-अत एवेति । वेति । स्वप्रभेदान्तराणि संकी. र्णतया पूर्वमुदाहृतानीति. तान्येव दृष्टान्तयति । तदेव व्याचष्टे-यथाहीति । तथात्रापीत्यध्याहारोऽत्र कर्तव्यः । 'तथा हि इति वा पाठः ।

 ननु व्यञ्जकभेदात्प्रथमभेदयोः परिहारोऽस्तु एकव्यञ्जकानुप्रवेशे तु किं वक्तव्य: मित्याशङ्कय पारमाथिकं परिहारमाह-किञ्चेति । ततोऽपीति ।यतोऽन्यद्वयङ्गयं गुणीभूतमन्यच्च प्रधानमिति को विरोधः । ननु वाच्यालंकारविषये श्रुतोऽयं संकरा- दिव्यवहारो न तु व्यङ्गयविषय इत्याशङ्कयाह-अयं चेति । मन्तव्य इति । मन- नेन प्रतीत्या तथा निश्चेयः उभयत्रापि प्रतीतेरेव शरणात्वादिति भावः । एवं गुणीभूः तव्यङ्गय संकरभेदास्त्रीनुदाह्रत्य संसृष्टिमुदाहरति-अत्र तु पदानीति । कानिचिदित्य

बालप्रिया

विरोध इत्यन्तं ग्रन्थमवतारयति-नन्वित्यादि । दृश्य पानमिति । लक्ष्य इति शेषः । स्वेति । दृष्टान्तयतीति सम्बन्धः । स्वप्रभेदान्तरवदित्यनेन दृष्टान्तं दर्शयतीत्यर्थः ।

 प्रथमभेदयोरिति । अनुग्राह्यानुग्राहकभावेन सन्देहयोगेन च यौ सङ्करौ तयोरि- त्यर्थः। किं वक्तव्यमिति। किं कर्तव्यमिति च पाठः। व्यञ्जकभेदाभावादिति भावः । भावमाह-यतोऽन्यदित्यादि । मन्तव्य इत्येतत् प्रकृतानुगुणतया व्याचष्टे- मननेनेत्यादि । प्रतीत्या सहृदयप्रतीत्या । इत्यनेनेति । कानिचिदविवक्षितवा- च्यानि कानिचिदनुरणनकपव्यंग्यवाच्यानीत्युक्त्येत्यर्थः । सुहृदित्यादि मुख्यार्थयोः