पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०५
तृतीद्योद्योतः


 अत्र लक्ष्यक्रमव्यङ्गयस्य वाक्यार्थीभूतस्य व्यङ्गयविशिष्टवाच्या- भिघायिमिः पदैः सम्मिश्रता । अत एव च पदार्थाश्रयत्वे गुणीभूतव्य. ङ्गयस्य वाक्यार्थाश्रयत्वे च ध्वनेः सङ्कीर्णतायामपि न विरोधः स्वप्रभेदा-


लोचनम्

 अत्रहीत्युदाहरणद्वयेऽपि । अलक्ष्यक्रमव्यङ्गयस्येति । रौद्रस्य व्यङ्गयवि. शिष्टेत्यनेन गुणता व्यङ्गयस्योक्ता । परित्युपलक्षणे तृतीया। तेन तदुपलक्षिता योऽर्थो व्यङ्गयगुणीभावेन वर्तते तेन संमिश्रता संकीर्णता । सा चानुग्राह्यानुग्राहकभावेन संदेहयोगेनैकव्यङ्जकानुप्रवेशेन चेति यथासंभवमुदाहरणद्वये योज्या। तथा हि-मे यदरय इत्यादिभिः सर्वैरेव पदार्थैः कर्तेत्यादिभिश्व विभावादिरूपतया रौद्र एवानुगृह्यते।

 कर्तेत्यादौ च प्रतिपदं प्रत्यवान्तरवाक्यं प्रतिसमासं च व्यङ्गयमुत्प्रेक्षितुं शक्यमे वेति न लिखितम्। पाण्डवा यस्य दासा इति तदीयोक्त्यनुकारः। तत्र गुणीभूतव्यङ्गय- तापि योजयितुं शक्या, वाच्यस्यैव क्रोधोद्दीपकत्वात् । दासैश्च कृतकृत्यैः स्वाम्यवश्यं द्रष्ट- व्य इत्यर्थशक्त्यनुरणनरूपतापि। उभयथापि चारुत्वादेकपक्षग्रहे प्रमाणाभावः। एकव्यञ्ज- कानुप्रवेशस्तु तैरेव पदैः गुणीभूतस्य व्यङ्गयस्य प्रधानीभूतस्य चरसस्य विभावादिद्वारतया-

बालप्रिया

रस्थः ।वृत्तावत्रेत्यस्य कर्तेत्युदाहरणमात्रपरामर्शकत्वभ्रमवारणाय विवृणोति- उदादरणद्वयेऽपीति । रौद्रस्येति । न्यक्कार इत्यादौ रावणगतस्य कर्तेत्यादौ भीमसेनगतस्य च क्रोधस्य प्रतीतेरिति भावः । व्यंग्यविशिष्टेत्यनेनेति । व्यंग्य- वैशिष्टयवाथनेनेत्यर्थः । गुणतेति । वाच्यार्थं प्रतीति शेषः । उक्ता दर्शिता । पदै. सम्मिश्रतेत्यस्य यथाश्रुतार्थस्य बाधाद्व्याचष्टे-पदरित्युपलक्षणे तृतीयेति । पदैरिति तृतीयार्थो ज्ञाप्यत्वमित्यर्थः । तमेवार्थ दर्शयति--तदुपलवितेति। केन सम्मिश्रतेत्यत्राह-योऽर्थ इत्यादि । योऽर्थः वाच्यार्थः । तेनेति । गुणीभूतम्यं- ग्येन वाच्येनेत्यर्थः । सा चेति । सङ्कीर्णतेत्यर्थः । तृतीयान्तत्रयस्यानेन सम्बन्धः ।

 कर्तेत्यादिभिश्चेति । पदार्थैरित्यनुषङ्गः । ननु न्यक्कारेत्यादौ व्यंग्यार्थाः पूर्वं व्याख्याताः । कर्तेत्यादौ तु ते किं न सन्तीत्यत आह-कर्तत्यादाविति । तदी.योक्तीति । पाण्डवा मम दासा इति दुर्योधनोक्तीत्यर्थः । रौद्र एवानुगृह्यत इत्यनेना-नुग्राह्यानुग्राहकभावेन सङ्करं प्रदर्श्य सन्देहयोगेन तं दर्शयति-तत्रेत्यादि । तत्र 'पाण्ड-वा यस्य दासा' इत्यत्र । गुणीभूतव्यंग्यताऽपीति । व्यंग्यमत्र पाण्डवगतापकर्षा- दिकं बोध्यम् । इत्यर्थेत्यादि । उक्तं यदर्थशक्तिमूलं व्यंग्यं तद्रूपतोऽपीत्यर्थः । योजयितुं शक्येत्यनुषङ्गः। उभयथापीत्यादि । तथा च गुणीभूतव्यंग्यस्य ध्वनेश्च सन्देहसङ्कर इति भावः । तैरिति । मे यदरय इत्यादिभिरित्यर्थः । विभावादिद्वार- तया रसस्य चाभिव्यञ्जनादिति सम्बन्धः। अतएवेत्येतद्व्याख्याया त एवेत्यादि न

 ६४०