पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०४
सटीकलोचनोपेतध्वन्यालोके


पेक्षया बाहुल्येन सम्भवति । यथा----'स्निग्घश्यामल' इत्यादौ । स्वप्र- भेदसंसृष्टत्वं च यथा पूर्वोदाहरण एव । अत्र ह्यर्थान्तरसंक्रमितवाच्यस्या- त्यन्ततिरस्कृतवाच्यस्य च संसर्गः । गुणीभूतव्यङ्ग्य सङ्कीर्णत्वं यथा 'न्यक्कारो ह्ययमेव मे यदरयः' इत्यादौ । यथा वा-

कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी
कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः ।

राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं
कास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ॥


लोचनम्

स्यैवान्यपरत्वम्, संक्रान्तिस्तु तस्यैतद्रूपतापत्तिः । यदि वा देवरानुरकाया एव तं देवरमन्यया सहावलोकितसंभोगवृत्तान्तं प्रतीयमुक्तिः, देवरेत्यामन्त्रणात् । पूर्वव्या- ख्याने तु तदपेक्षया देवरेत्यामन्त्रणं व्याख्यातम् । वाहुल्येनेति । सर्वत्र काव्ये रसादितात्पर्यं तावदस्ति तत्र रसध्वनेर्भावध्वनेश्चैकेन व्यञ्जकेनाभिव्यञ्जनं स्निग्धश्या- मलेत्यत्र विप्रलम्भश्रृङ्गारस्य तद्वयभिचारिणश्च शोकावेगात्मनश्चर्वणीयत्वात् । एवं त्रिविधं संकरं व्याख्याय संसृष्टिमुदाहरति-स्वप्रभेदेति । अत्र हीति । लिप्तश- ब्दादौ तिरस्कृतो वाच्यः, रामादौ तु संक्रान्त इत्यर्थः ।

 एवं स्वप्रभेदं प्रति चतुर्भेदानुदाहृत्य गुणीभूतव्यङ्गयं प्रत्युदाहरति-गुणीभूतेति।

बालप्रिया

विवक्षितस्येत्यादि । स्वरूपस्थस्य वाच्यस्य । तस्य वाच्यस्य । एतद्रूपता. पत्तिः विवक्षितरूपान्तरप्राप्तिः। देवरानुरक्ताया इति । स्वस्य यो देवरस्तदनुर- क्ताया इत्यर्थः । सहेत्यस्य सम्भोगेत्यनेन सम्बन्धः । उक्तार्थे गमकमाह- -देवरे-त्यादि । तदपेक्षयेति । या प्राघुणिकाऽभूत्तदपेक्षयेत्यर्थः । तन्निरूपितं देवरत्वं बोध्य- मित्यर्थः । गाथेयं काव्यप्रकाशेऽप्युदाहृता । बाहुल्येन सम्भवतीत्येतदुपपादयति- सर्वत्रेत्यादि। चर्वणीयत्वादभिव्यञ्जनमिति सम्बन्धः । लिप्तशब्दादावित्यादि । 'स्नग्धश्यामळकान्तिलिप्तवियत इत्यत्र द्रवद्रव्यस्य सर्वावयवावच्छेदेन यः संयोगस्त- दात्मकस्य लेपस्य वाच्यार्थस्य बाधाल्लिपिधातुः सम्पर्कं लक्षयंस्तदतिशयं द्योतयति । एवं पयोदास्सुहृदो येषामित्यत्र वाच्यार्थस्य बाधात्सुहृत्पदमुपकारित्वेन रूपेण लक्षय- त्तदतिशयं व्यनक्तीत्यर्थः । रामादाविति । रामादिपद इत्यर्थः ।, वाच्य इत्यनु. षज्यते । सङक्रान्त इति । यथासक्रान्तिस्तथा द्वित्तीयोद्योते उक्तम् । रामादावि- त्यादिपदेन 'न्यक्कार' इत्यादिस्थरावणादिपसंग्रहः । 'कर्तेत्यादिश्लोको वेणीसंहा-