पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०३
तृतीयोद्द्योतः


(क्षणप्राघुणिका देवर एषा जायया किमपि ते भणिता ।
रोदिति शून्यवलभीगृहेऽनुनीयतां वराकी ॥ इति च्छाया ।)

 मत्र ह्यनुनीयतामित्येतत्पदमर्थान्तरसङ्क्रमितवाच्यत्वेन विवक्षिता. न्यपरवाच्यत्वेन च सम्भाव्यते । न चान्यतरपक्षनिर्णये प्रमाणमस्ति । एकव्यञ्जकानुप्रवेशेन तु व्यङ्गयत्वमलक्ष्यक्रमव्यङ्गयस्य स्वप्रभेदान्तरा-


लोचनम्

स्तवृत्तान्तं दृष्टवत्या अन्यस्यास्तद्देवरचौरकामिन्याः। तत्र तव गृहिण्यायं वृत्तान्तो ज्ञात इत्युभयत कलहायितुमिच्छन्त्येवमाह । तत्रार्थान्तरे संभोगेनैकान्तोचितेन परि- तोष्यतामित्येवंरूपे वाच्यस्य संक्रमणम् । यदि वा त्वं तावदेतस्यामेवानुरक्त इतीर्ष्या- कोपतात्पर्यादनुनयनमन्यपरं विवक्षितम् । एषा तवेदानीमुचितमगर्हणीय प्रेमास्पद- मित्यनुनयो विवक्षितः, वयं त्विदानीं गर्हणीयाः संवृत्ता इत्येतत्परतया उभयथापि च स्वाभिप्रायप्रकाशनादेकतरनिश्चये प्रमाणाभाव इत्युक्तम् । विवक्षितस्य हि स्वरूपस्थ.

बालप्रिया

घुणिकाऽभूत्सा नायिकेत्यर्थः । देवरेति । तस्या यो देवरो भर्तुर्भ्राता तस्मिन्ननुरक्ते । त्यर्थः । विदितेति । विदितो वृत्तान्तस्तस्या देवरस्य च परस्परानुरागादिर्यया तये- त्यर्थः । तद्वृत्तान्तमिति । तज्जायावचनादिवृत्तान्तमित्यर्थः । कामिन्या इत्ये- षोक्तिरित्यन्वयः । जायया किमपि भणितेति रोदनहेतुप्रदर्शनमात्रं न तत्कथनस्य फलान्तरमप्यस्तीत्याह-तत्रेत्यादि । तद्वचने । तत्र इत्येवमाहेति सम्बन्धः । सेति शेषः । उभयतः कलहायितुमिति । तद्देवरस्य तज्जायायाश्च मिथः कलहमुत्पा- दयितुमित्यर्थः । वृत्तावुक्तं सन्देहसङ्करं विवृणोति-तंत्रेत्यादि । तत्र तथावचने । इत्येवंरूपे अर्थान्तर इति सम्बन्धः । वाच्यस्य अनुनयतिवाच्यार्थस्य । सङ्क- मणमिति । विवक्षितमित्यस्यापकर्षः । प्रियभाषणादिः परितोषजनको व्यापारस्त- त्वेनानुनयतेर्वाच्यार्थः, स चात्र सम्भोगत्वेन रूपेण लक्ष्यो विवक्षित इत्यर्थः । तस्यां तवानुरागो मया ज्ञात "इत्यादिरर्थश्चात्र व्यंग्यो बोध्यः । एतस्थामेवेति । देवर तस्यामेवेति च पाठः । या रोदिति तस्यामेवेत्यर्थः। इतीति हेतौ । ईर्ष्येति । वक्तृ- कामिनीगतयोरीर्ष्याकोपयोस्तात्पर्यादित्यर्थः । अनुनयनमिति । अनुनयति वाच्यार्थ इत्यर्थः । अन्यपरमिति । ईर्ष्याकोपव्यग्यपरमित्यर्थः । उक्तमुपपदयति-एषे. त्यादि । इत्येतत्परतया विवक्षितमिति सम्बन्धः । उभयथाऽपाति । अनुनयति वाच्यस्यार्थान्तरसङ्क्रमणपक्षे अन्यपरत्वेन विवक्षितत्वपक्षे चेत्यर्थः । स्वभिप्रायेति । वक्तृकामिनीगताभिलाषेत्यर्थः। उक्तमिति । वृत्तिकृतेति शेषः । प्रसङ्गादाह-