पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०२
सटीकलोचनोपेतध्वन्यालोके


 तत्र स्वप्रभेदसङ्कीर्णत्वं कदाचिदनुग्राह्यानुग्राहकभावेन । य़था-

'एवंवादिनि देवर्षौ' इत्यादौ । अत्र ह्यर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्य- ध्वनिप्रभेदेनालक्ष्यक्रमव्यङ्गयध्वनिप्रभेदोऽनुगृह्यमाणः प्रतीयते । कदाचित्प्रभेदद्वयसम्पातसन्देहेन । यथा-

खणपाहुणिमा देअर एसा जामाऍ किंपि दे भणिदा ।
रुअइ पडोहरवलहीधरम्मि अणुणिज्जउ वराई ॥


लोचनम्

मन्तव्याः । स्वप्रभेदास्तावन्तोऽलंकार इत्येकसप्ततिः । तत्र संकरत्रयेण संसृष्टया च गुणने द्वे शते चतुरशीत्यधिके । तावता पञ्चत्रिंशतो मुख्यभेदानां गुण, सप्तसहस्राणि चत्वारि शतानि विशत्यधिकानि भवन्ति । अलंकाराणामानन्त्यात्वसंख्यत्वम् ।

 तत्रा व्युत्पत्तये कतिपयभेदेषूदाहरणानि दित्सुः स्वप्रभेदानां कारिकाया मन्यपदार्थत्वेन प्रधानतयोक्तत्वात्तदाश्रयाण्येव चत्वार्युदाहरणान्याह-तत्रेति । अनुगृह्यमाण इति । लज्जया हि प्रतीतया । अभिलाषश्रृङ्गारोऽत्रानुगृह्यते व्यभिचारिभूतत्वेन । क्षण उत्सवस्तत्र निमन्त्रणेनानीता हे देवर ! एषा ते जायया किमपि भणिता रोदिति पडाहरे शून्ये वलभीगृहे अनुनी यतां वराकी । सा तावद्देवरानुरक्ता तज्जायया विदितवृत्तान्तया किमप्युक्तत्येषोक्ति

बालप्रिया

त्रिशद्भेदाः स्वयं प्रतिपादिता इत्यर्थः । ते इति । पञ्चत्रिंशद्भेदा इत्यर्थः। स्वप्र. भेदा इति । ध्वनेरवान्तरभेदा इत्यर्थः । तावन्त इति । पञ्चत्रिशदित्यर्थः । अल- ङ्कार इति । अलङ्कारत्वावच्छिन्न इत्यर्थः । ततत्रेत्यादि । एकसप्ततेश्चतुभिर्गुणन इत्यर्थः । द्वे शते चतुरशीत्यधिके इत्यस्यानन्तरं तावता पञ्चत्रिंशतो मुख्यभे- दानां गुणने सप्तसहस्राणि चत्वारि शतानि विंशत्यधिकानि भवन्तीति पाठो बहुषु ग्रन्थेषु दृश्यते, तदर्थः सङ्गतो न भाति, विद्वद्भिर्न्निश्चेतव्यः। असंख्यत्वमिति । अतोऽलङ्कारत्वावच्छि एक एव ग्राह्य इति भावः ।

 अन्यपदार्थत्वेनेति । सगुणीभूतेत्यादिबहुव्रीहिद्वयान्यपदार्थत्वेनेत्यर्थः । अत्र ह्यर्थशक्तीत्यादिवृत्युक्तं विवृणोति-लज्जयेत्यादि । व्यभिचारिभूतत्वेनेति । लज्जा- याश्श्रृङ्गारव्यभिचारित्वेन हेतुनेत्यर्थः । उत्सव इति । उत्सवोऽयं देवरसम्बन्धी बोध्यः । प्राधुणिकेत्यस्याम्यागतेति वाच्यार्थः । तद्भावार्थकथनम्-निमन्त्रणेनानी. तेति। अनेनानुनयनस्थावश्यकत्वं द्योत्यते। देवरेत्यादिच्छायाप्रदर्शनम् । किम पीति । अनुचितमित्यर्थः । यतो रोदिति अतो वराको दीना । सा त्वया अनुनीयता- मिति सम्बन्धः । गाथामिमामवतारणपूर्वकं व्याचष्टे-सेत्यादि। सेति । या क्षणप्रा.