पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०१
तृतीयोद्द्योतः


सर्वत्र तत्र विषयी ज्ञेयः सहृदयैर्जनैः ।।

सगुणीभूतव्यङ्गयैः सालङ्कारैः सह प्रभेदः स्वैः ।
सङ्करसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा ॥ ४३ ॥

 तस्य च ध्वनेः स्वप्रभेदैर्गुणीभूतव्यङ्गयेन वाच्यालङ्कारैश्च सङ्कर. संसृष्टिव्यवस्थायां क्रियमाणायां बहुप्रभेदता लक्ष्ये दृश्यते । तथाहि स्वप्र. भेदसङ्कीर्णः, स्वप्रभेदसंसृष्टो गुणीभूतव्यङ्गयसङ्कीर्णो गुणीभूतव्यङ्ग्य. संसृष्टो वाच्यालङ्कारान्तरसङ्कीर्णो वाच्यालङ्कारान्तरसंसृष्टः संसृष्टालङ्कार- सङ्कीर्णः संसृष्टालङ्कारसंसृष्टश्चेति बहुषा ध्वनिः प्रकाशते ।


लोचनम्

कृत इत्यर्थः । वाग्रहणात्तदाभासादेः पूर्वोत्तस्य प्रहणम् । संवृत्येति । गोप्यमानतया लब्धसौन्दर्य त्यर्थः । काव्याद्ध्वनीति । काव्यमार्गे। विषयीति । स त्रिवि. घस्य ध्वनेः काव्यमार्गो विषय इति यावत् ॥ ४१, ४२॥

 एवं श्लोकद्वयेन संप्रहार्थमभिधाय बहुप्रकारत्वप्रदर्शिकां पठति-सगुणीति । सहगुणीभूतव्यङ्गयेन सहालंकारैर्ये वर्तन्ते स्वे ध्वनेः प्रभेदास्तैः संकीर्णतया संसृष्टया वानन्तप्रकारो ध्वनिरिति तात्पर्यम् । बहुप्रकारतां दर्शयति-तथाहीति । स्वभेदै- र्गुणीभूतव्यङ्गानालंकारैः प्रकाश्यत इति त्रयो भेदाः । तत्रापि प्रत्येक संकरेण संसृष्टया चेति षट् । संकरस्यापि त्रयः प्रकाराः अनुग्राह्यानुग्राहकभावेन संदेहास्पदत्वेनैकपदा- नुप्रवेशेनेति द्वादश भेदाः । पूर्वं च ये पञ्चत्रिंशद्भेदा उक्तास्ते गुणीभूतव्यङ्गयस्यापि

बालप्रिया

शब्दार्थमयं काव्यं शरीरमिति विभाग इत्यर्थः । वाग्रहणादिति । भावो वेति वाका- रादित्यर्थः। संवृत्याभिहितावित्यस्य विवरणम्-गोप्यमानतया लब्धसौन्दर्यं इति । ध्वनेर्विषयित्वोक्त्या काव्यमार्गस्य विषयत्वं लब्धमित्याशयेनाह-स त्रिविधे. धस्येत्यादि । 'यस्मिन्नित्यादौ । यस्मिन् काव्याध्वनि । प्रकाशते सर्वत्र तत्र व्यंग्य- प्राधान्यैकनिबन्धनो ध्वनिः विषयी सन् सहृदयैर्जनैर्ज्ञेय इत्यन्वयः ॥ ४१, ४२ ॥

 कारिकां ज्याचष्टे-सहेत्यादि । उद्योतत इत्यत्र ध्वनिरिति शेष इति भावः । सगुणीभूतव्यंग्यैस्सालकारैर्स्स्वप्रभेदैः सह सङ्करसंसृष्टयोरूक्त्या प्रत्येकं तैस्त्रिभिस्सह ते लभ्येते इत्याशयेन विभागान् दर्शयति-स्वप्रभेदैरित्यादि । प्रकाश्यत इति सम्मिश्र्यत इति च पाठः । द्वादशेति। स्वप्रभेदादिभिस्त्रिभिः सह सङ्करकृता नद, संसृष्टिकृतास्त्रय इति द्वादशेत्यर्थः। पूर्व च ये पञ्चत्रिंशद्भेदा उक्ता इति । द्वितीयोद्योतावसान ‘एवं ध्वनेः प्रभेदान् प्रतिपाद्येति वृत्तिग्रन्थव्याख्यानावसरे ये पञ्च.