पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५००
सटीकलोचनोपेतध्वन्यालोके


ध्वनिरेव काव्यमिति स्थितमेतत् । तदयमत्र संग्रहः-}

यस्मिन् रसो वा भावो वा तात्पर्येण प्रकाशते ।
संवृत्त्याभिहितौ वस्तु यत्रालङ्कार एव वा ॥
काव्याध्वनि ध्वनिर्य॑ङ्गयप्राधान्यैकनिबन्धनः ।


लोचनम्

 अत्र लङ्धितगगना कर्पासलता भवन्त्विति हालिकस्याशियं वर्धयन्त्या प्रातिवे. श्यकवधुका निर्वृति प्रापिता इति चौर्यसंभोगाभिलाषिणीयमित्यनेन व्यङ्गयेन विशिष्टं वाच्यमेव सुन्दरम् ।

गोलाकच्छकुङ्गे भरेण जम्बूसु पच्चमाणासु ।
हलिअबहुआ णिअंसइ जम्बूरसरत्तअं सिअअम् ॥

 अत्र गोदावरीकच्छलतागहने भरेण जम्बूफलेषु पच्यमानेषु । हालिकवधूः परि धत्ते जम्बूफलरसरक्तं निवसनमिति त्वरितचौर्यसंभोगसंभाव्यमानजम्बूफलरसरक्तत्व. परभागनिह्ववनं गुणीभूतव्यङ्गयमित्यलं बहुन।।

 ध्वनिरेव काव्यमिति । आत्मात्मिनोरभेद एव वस्तुतो व्युत्पत्तये तु विभागः

'बालप्रिया

तव्द्याचष्टे अत्रेत्यादि । प्रातिवेश्यिको निर्वृति प्रापित इति च लोचने पाठः । सोऽपि साधुः। तदनुसारेण गाथा छाया च पठनीया । अत्र पक्षे सङ्केतस्थानार्थिनं स्वानुरक्तं प्रातिवेश्यिकं तत्सम्भोगाभिलाषिणी काचिद्यदृच्छया दृष्टं हालिकं प्रत्येवमाशीर्वादेन सङ्के- तस्थानं ज्ञापितवतीति तत्सम्मोगाभिलाषो व्यंग्यो बोध्यः । गोलाकच्छेति ।

गोदाकच्छनिकुञ्जे भरेण जम्बूषूपच्यमाना । सुहालिकवधूर्नियच्छति जम्बूरसरक्तं सिचयम् ॥

 इति च्छाया । भरेणेत्यस्यातिशयेनेत्यर्थः । लोचने 'गोदे त्यादेः गोदावरीत्या- दिविवरणं बोध्यम् । गुणीभूतं व्यंग्यं दर्शयति-त्वरितेत्यादि । त्वरितः पतितज- म्बूफले निकुञ्जदेशे सिंचयातरणे त्वरया कृतो यश्चौर्यसम्भोगस्तेन सम्भाव्यमानः समुत्पाद्यमास्तद्धेतुकतया तर्क्यमाणो वा यो जम्बूफलरसरक्तत्वेन परभागः सिचयस्य तत्तद्धागे वर्णान्तरप्राप्तिः तस्य निह्ववनं गोपनेच्छेत्यर्थः । गुणीभूतव्यंग्यमिति । सर्वावयवावच्छेदेन जम्बूफलरसरतस्य सिचयस्य परिधानेन तन्निह्ववन गम्यते, तत्तु वाच्यार्थै गुणीभूतमित्यर्थः ।

 ननु ध्वनिकाव्ययोरात्मशरीरस्थानीययोर्भैदावृत्तौ 'ध्वनिरेव काव्यमिति सामा. नाधिकरण्येन निर्देशोऽनुपपन्न इत्यत आह-आत्माऽस्मिनोरित्यादि । आत्मी देहः । व्युत्पत्तये शिष्यजनव्युत्पादनाय । विभाग इति । ध्वनिः काव्यस्यात्मा