पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९९
तृतीयोद्द्योतः


पुष्णाति । सर्वमेतच्च महाकवीनां काव्येषु दृश्यते । अस्माभिरपि स्वेषु काव्यप्रबन्धेषु यथायथं दर्शितमेव । स्थिते चैवं सर्व एव काव्यप्रकारो न ध्वनिधर्मतामतिपतति रसाद्यपेक्षायां कवेर्गुणीभूतव्यङ्गयलक्षणोऽपि प्रका. रस्तदङ्गतामवलम्बत इत्युक्तं प्राक् । यदा तु चाटुषु देवतास्तुतिषु वा रसादीनामङ्गतया व्यवस्थानं हृदयवतीषु च सप्रज्ञकगाथासु कासुचिव्द्य. ङ्गयविशिष्टवाच्ये प्राधान्यं तदपि गुणीभूतव्यङ्गयस्य ध्वनिनिष्पन्दभूत- त्वमेवेत्युक्तं प्राक् । तदेवमिदानींतनकविकाव्यनयोपदेशे क्रियमाणे प्राथ. मिकानामभ्यासार्थिनां यदि परं चित्रेण व्यवहारः, प्राप्तपरिणतीनां तु


लोचनम्

नादित्यर्थः। शृङ्गारपदं रसोपलक्षणम् । स एवेति । यावद्रसिको न भवति तदा परिदृश्यमानोऽप्ययं भाववर्गों यद्यपि सुखदुःखमोहमाध्यस्थ्यमात्र लौकिकं वित- रति, तथापि कविवर्णनोपारोहं विना लोकातिकान्तरसास्वादभुवं नाधिशेत इत्यर्थः । चारुत्वातिशयं यन्न पुष्णाति तन्नास्त्येवेति संबन्धः । स्वेष्विति। विषमबाणलीला- दिषु । हृदयवतीस्विति । 'हिअअललिआ' इति प्राकृतकविगोष्ठयां प्रसिद्धासु । त्रिवर्गोपायोपेयकुशलासु सप्रज्ञाकाः सहृदया उच्यन्ते । तद्गाथा यथा भट्टेन्दुराजस्य-

लङ्घिअगअणा फलहीलआओ होन्तुत्ति वढ्ढअन्तीअ ।
हालि अस्स आसिसं पालिवेसवतुआ विणिठ्ठविआ ॥

बालप्रिया

क्षणमिति । रससामान्योपलक्षकमित्यर्थः । वीतरागश्चेदित्यादिकं विवृणोति- यावद्रसिको न भवतीत्यादि । सुखेति । मध्ये तिष्ठतीति मध्यस्थः तस्य भावो माध्यस्थ्यं सुखदुःखमोहानां यन्माध्यस्थ्यं तदेकानुभव तन्मात्रमित्यर्थः । मात्रपदेन रसास्वादव्यवच्छेदः । वितरतीति । भाववर्गस्य त्रिगुणात्मकत्वादिति भावः । हृद- यवतीष्वित्यस्य विवरणम्-हिअमललिमा इत्यादि । त्रिवर्गेति । त्रिवर्गस्य धर्मादित्रयस्य य उपायः, स एवोपेयो ज्ञातव्यस्तत्र कुशलास्वित्यर्थः । लङ्घिम इति ।

लङ्घितगगनाः कार्पासलता भवन्त्विति वर्धयन्त्या ।
हालिकस्याशिषं प्रातिवेश्यवधुका निर्वापिता ॥

 इतिच्छाया । हे हालिक ! कार्पासलताः त्वदुपजीवनभूताः कार्पासस्तम्बाः । लङ्घितगगनाः अत्युच्चाः । भवन्तु इति हालिकस्याशिषं वर्धयन्त्या पुनः पुनः कुर्वत्या कयाचित् । प्रातीति । प्रतिवेशिनी वधूरित्यर्थः । निर्वापिता निर्वृति प्रापिता । कार्पासलतानां परिपोषे तत्स्थले निश्शङ्कं हालिकेन सह रमणं भविष्यतीति बुद्धया निर्वृतिरित्यनेन तच्चौर्यसम्भोगाभिलाषो वध्वा व्यज्यते, तच्च गुणीभूतम् । तदे.