पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९८
सटीकलोचनोपेतध्वन्यालोके


मुच्यते-

अपारे काव्यसंसारे कविरकः प्रजापतिः ।
यथास्मै रोचते विश्वं तथेदं परिवर्तते ।।
शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् ।
स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ।।
भावानचेतनानपि चेतनवचेतनानचेतनवत् ।
व्यवहारयति यथेष्टं सुकविः काव्ये स्वतन्त्रतया ।।

 तस्मान्नास्त्येव तद्वस्तु यत्सर्वात्मना रसतात्पर्यवतः कवेस्तदिच्छया तदभिमतरसाङ्गता न घत्ते । तथोपनिबध्यमानं वा न चारुत्वातिशयं


लोचनम्

यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम् ।

 इत्यपि रसौचित्यशरणमेव वक्तव्यमन्यथा निर्हेतुकं तत् । अपार इति । अनाः द्यन्त इत्यर्थः । यथारुचि परिवृत्तिमाह-शृङ्गारीति । शृङ्गारोक्तविभावानुभावव्यः भिचारिचर्वणारूपप्रतीतिमयो न तु स्त्रीव्यसनीति मन्तव्यम् । अत एव भरतमुनिः- 'कवेरन्तर्गतं भावं 'काव्यार्थान् भावयति इत्यादिषु कविशब्दमेव मूर्धाभिषिक्ततया प्रयुक्ते । निरूपितं चैतद्रसस्वरूपनिर्णयावसरे । जगदिति । तद्रसनिमज्ज-

बालप्रिया

तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते ॥

इत्यनेन पाकलक्षणमन्यदेवोक्तमित्यत आह-यत्पदानीत्यादि । न तु स्त्री व्यसनीति । शृङ्गारिपदार्थं इति शेषः । व्यसनमासक्तिः । शृङ्गारीत्यायुक्तार्थे उप. ष्टम्भकमाह-मत एवेत्यादि । कवेरिति ।

वागङ्गमुखरागेण सत्त्वेनाभिनयेन च ।
कवेरन्तर्गतं भावं भावयन् भाव उच्यते ॥

 इति श्लोकः, काव्यानित्यादिवाक्यं च नाट्यशास्त्रे सप्तमाध्याये वर्तते । वाग ङ्गमुखरागात्मना अभिनयेन सत्वलक्षणेन चाभिनयेन करणेन । कवेः वर्णनानिपुणस्य योऽन्तर्गतोऽनादिप्राक्तनसंस्कारप्रतिभानमयो देशकालादिभेदाभावात्सर्वसाधारणीभावे: नास्वादयोग्यश्चित्तवृत्तिलक्षणो भावन्नास्तम् । भावयन्नास्वदयोग्योकुर्वन् । काव्यार्था- निति । कोः कवतेर्वा कवनीयं काव्यं तत्र च पदार्थवाक्यार्थौ रसेष्वेव पर्यवस्यत इत्यसाधारण्यात्प्राधान्याच्च काव्यस्यार्था रसाः अर्थ्यन्ते प्रधान्येनेत्यर्था, इति चाभिन- वभारत्यां विवृतम् । कथं जगतो रसमयत्वमित्यत आह-तद्रसेत्यादि । रसोपल.