भवतीत्यनेनापि प्रकारेण नीरसत्वं परिकल्प्य चित्रविषयो व्यवस्थाप्यते ।
तदिदमुक्तम्-
'रसभावादिविषयविवक्षाविरहे सति । |
एतच्च चित्रं कवीनां विशृङ्खलगिरां रसादितात्पर्यमनपेक्ष्यैव काव्य. प्रवृत्तिदर्शनादस्माभिः परिकल्पितम् । इदानीन्तनानां तु न्याय्ये काव्यनय व्यवस्थापने क्रियमाणे नास्त्येव ध्वनिव्यतिरिक्तः काव्यप्रकारः परिपाकवतां कवीनां रसादितात्पर्यविरहे व्यापार एव न शोभते । रसा. दितात्पर्ये च नास्त्येव तद्वस्तु यदभिमतरसाङ्गतां नीयमानं न प्रगुणी. भवति । अचेतना अपि हि भावा यथायथमुचितरसविमावतया चेतन- वृत्तान्तयोजनया वा न सन्त्येव ते ये यान्ति न रसाङ्गताम् । तथा चेद-
लोचनम्
मधुना तु दौर्बल्यमित्यपिशब्दस्यार्थः । अज्ञकृतायां च शिखरिण्यामहो शिखरिणीति न तज्ज्ञानाचमत्कारः अपि तु दधिगुडमरिचं चैतदसमन्जसयोजितमिति वक्तारो भवन्ति । उक्तमिति । मयैवेत्यर्थः ।
अलङ्काराणां शब्दार्थगतानां निबन्ध इत्यर्थः । ननु तच्चित्रमभिधीयते' इति किमनेनोपदिष्टेन । काव्यरूपं हि तदिति कथितम् । हेयतया तदुपदिश्यत इति चेत्-घटे कृते कतिर्नं भवतीत्येतदपि वक्तव्यमित्याशङ्कय कविभिः खलु तत्कृतमतो हेयतयोपदिश्यत इत्येतन्निरूपयति-एतच्चेत्यादिना।, परिपाकवतामिति । शब्दार्थविषयो रसौचित्यलक्षणः परिपाको विद्यते येषाम् ।
बालप्रिया
इति वक्तारो भवन्तीत्यनेन रसास्वादस्य दौर्बल्यं दर्शितम् । उक्तमित्यनेनान्योक्तत्वं दर्शितमिति भ्रमं वारयति-मयैवेति । वृत्तिकारेण मयैवेत्यर्थः । अकाव्यरूपमि- त्यादि । तदकाव्यरूपमिति कथितं हीत्यन्वयः । तदित्यस्य चित्रमित्यर्थः । मध्ये शङ्कते-हेयतयेत्यादि । हेयतया त्याज्यतया । तत् चित्रम् । प्रतिवक्ति-घट इत्या. दि । तत्कृतमिति । चित्रकाव्यं कृतमस्तीत्यर्थः । ननु-
यत्पदानि त्यजन्त्यैव परिवृत्तिसहिष्णुताम् । |
६३ धव०