पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९६
सटीकलोचनोपेतध्वन्यालोके


कविविषयौव तस्य न स्यात् कविविषयश्च चित्रतया कश्चिन्निरूप्यते ।

 अत्रोच्यते-सत्यं न तादृक्काव्यप्रकारोऽस्ति यत्र रसादीनाम- प्रतीतिः । किं तु यदा रसभावादिविवक्षाशून्यः कविः शब्दालकारमर्थाः लङ्कारं वोपनिबध्नाति तदा तद्विवक्षापेक्षया रसादिशून्यतार्थस्य परिक ल्प्यते । विवक्षोपारूढ एव हि काव्ये शब्दानामर्थः । वाच्यसामर्थ्यवशेन च कविविवक्षाविरहेऽपि तथाविध विषये रसादिप्रतीतिर्भवन्ती परिदुर्बला


लोचनम्

 ननु मा भूत्कविविषय इत्याशङ्कयाह-कविविषयश्चेति। काव्यरूपतया यद्यपि न निर्दिष्टस्तथापि कविगोचरीकृत एवासौ वक्तव्यः अन्यस्य वासुकिवृत्तान्ततुल्यस्ये- हाभिधानायोगात् कवेश्चेद्गोचरो नूनममुना प्रीतिर्जनयितव्या सा चावश्यं विभावानु- भावव्यभिचारिपर्यवसायिनीति भावः । किं त्विति ।

विवक्षा तत्परत्वेन नाङ्गित्वेन कथंचन ।

 इत्यदिर्योऽलंकारनिवेशने समीक्षाप्रकार उक्तस्तं यदा नानुसरतीत्यर्थः । रसा दिशून्यतेति । नैव तत्र रसप्रतीतिरस्ति यथा पाकानभिज्ञसूदविरचिते मांसपाकवि- शेषे । ननु वस्तुसोन्दर्यादवश्यं भवति कदाचित्तथास्वादोऽकुशलकृतायामपि शिखरि- ण्यामिवेत्याशङ्कयाह-वाच्येत्यादि । अनेनापीति । पूर्वं सर्वथा तच्छून्यत्वमुक्त

बालप्रिया

अन्यस्येति । कविगोचरीकृतादन्यस्येत्यर्थः । वासुकिवृत्तान्त तुल्यस्येति । अप्र- कृतस्येत्यर्थः । नन्वस्तु कविगोचरत्वं किमतस्तत्राह-कवेश्चेत्यादि । यथोक्तम्-

स्वभावश्वायमर्थानां यन्न साक्षादमी तथा ।
स्वदन्ते सत्कविगिरां गता गोचरतां यथा ॥ इति ।

 नन्वस्तु प्रीतिजनकत्वं, तथाऽपि कथं रसादिशून्यत्वाभाव इत्यत आह-सा चे. त्यादि । काव्यजन्यस्य प्रीतिविशेषस्य नियमेन रसास्वादेकनिबन्धनत्वादिति भावः । 'किंत्वित्यादिग्रन्थस्य भावं विवृणोति-विवक्षेत्यादि । यदा नानुसरतीति । तदनुसारेणालङ्कारोपनिबन्ध एवालङ्काराणां रसाङ्गत्वमिति भावः। सदृष्टान्तं भाव- माह-नैवेत्यादि । तत्रेति । समीक्षाप्रकारी य उक्तस्तदनुसरणं विनाऽलङ्कारोपनिब. न्धस्थल इत्यर्थः । रसप्रतीतिरिति । रसशब्देन श्रृङ्गारादिमधुरादिश्च रसो विव. क्षितः । तथाऽस्वाद इति । रसास्वाद इत्यर्थः । शिखरिण्यामिवेति । शिख. रिणी नाम दध्यादिमिश्री भक्ष्यविशेषः । अनेनापी त्यपिशब्दार्थमाह-पूर्वमि- त्यादि । तच्छ्न्यत्वम् रसशून्यत्वम् । दौर्बल्यमिति । रसास्वादस्येति शेषः ।