पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९५
तृतीयोद्द्योतः


 व्यङ्गयस्यार्थस्य प्राधान्ये ध्वनिसंज्ञितकाव्यप्रकारः गुणभागे तु गुणी- भूतव्यङ्गयता । ततोऽन्यद्रसभावादितात्पर्यरहितं व्यङ्गयार्थविशेषप्रकाशन. शक्तिशून्यं च काव्यं केवलवाच्यवाचकवैचित्र्यमात्राश्रयणोपनिबद्धमाले. ख्यप्रख्यं यदाभासते तच्चित्रम् । न तन्मुख्यं काव्यम् । काव्यानुकारो ह्यसौ । तत्र किञ्चिच्छब्दचित्रं यथा दुष्करयमकादि । वाच्यचित्रं ततः शब्दचित्रादन्यद्व्यङ्यार्थसंस्पर्शरहितं प्राधान्येन वाक्यार्थतया स्थितं रसा. दितात्पर्यरहितमुत्प्रेक्षादि ।

 अथ किमिदं चित्रं नाम ? यत्र न प्रतीयमानार्थसंस्पर्शः। प्रतीयमानो ह्यर्थस्त्रिभेदः प्राक्प्रदर्शितः। तत्र यत्र वस्त्वलङ्कारान्तरं वा व्यङ्गयं नास्ति स नाम चित्रस्य कल्प्यतां विषयः । यत्र तु रसादीनामविषयत्वं स काव्यप्रकारो न सम्भवत्येव । यस्मादवस्तुसंस्पर्शिता काव्यस्य नोप- पद्यते । वस्तु च सर्वमेव जगद्गतमवश्यं कस्यचिद्रसस्य भावस्य वाङ्गत्वं प्रतिपद्यते अन्ततो विभावत्वेन । चित्तवृत्तिविशेषा हि रसादयः, न च तदस्ति वस्तु किञ्चिद्यन्न चित्तवृत्तिविशेषमुपजनयति तदनुत्पादने वा


लोचनम्

प्रसिद्धमेव तत्तुल्यमेवार्थचित्रं मन्तव्यमिति भावः। आलेखयप्रख्यमिति । रसादि- जीवरहितं मुख्यप्रतिकृतिरूपं चेत्यर्थः ।

 अथ किमिदमिति आक्षेपे वक्ष्यमाण आशयः। अत्रोत्तरम्-यत्र नेति । आक्षेप्ता स्वाभिप्रायं दर्शयति-प्रतीयमान इति । 'अवस्तुसंस्पर्शितेति । कच- टतपादिवन्निरर्थकत्वं दशदाडिमादिवदसंबद्धार्थत्वं वेत्यर्थः ।

बालप्रिया

कया संज्ञाकरणस्याभिप्रायमाह-यमकेत्यादि । बन्धादीति भिन्नं पदम् । प्रसिद्ध- मेवेति । यमकादेरक्षरसन्निवेशविशेषरूपत्वात्तस्य चित्रसमलङ्कारविद्भिन्निश्चितमेवे- त्यर्थः । किन्निबन्धनमालेख्य प्रख्यत्वमित्यत आह-रसादीति । मुख्येत्यादि । गुणालङ्कारकृतसौन्दर्यशालित्वेन ध्वनेरनुकृतिरूपं चेत्यर्थः ।

 किमिदमित्याक्षेपे हेतुं दर्शयति-वक्ष्यमाण इति । अवस्तुसंस्पर्शितेत्येतद्विधा विवृणोति-कचटतपादीत्यादि । माभूदिति । ध्वनिगुणीभूतव्यंग्ययोरेव कविविषय. त्वौचित्यादिति भावः । भावं विवृणोति-काव्येत्यादि । न निर्दिष्ट इति । न तन्मुख्यं काव्यं काव्यानुकारो ह्यसाविति वचनादिति भावः । असाविति। चित्रविषय इत्यर्थः ।