अत्र हि वाच्यार्थों नात्यन्तं सम्भवी न चासम्भवी । तस्माद्वाच्य.
व्यङ्गययोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये ।
प्रधानगुणभावाभ्यां व्यङ्गयस्यैवं व्यवस्थिते । |
लोचनम्
इति पाठे समृद्धेन ऋद्धिमात्रेण सत्पुरुषो न तु गुणादिनेति व्याख्येयम् । नात्यन्त. मिति । वाच्यभावनियमो नास्ति नास्तीति न शक्यं वक्तुं, व्यङ्गयस्यापि भावादिति तात्पर्यम् । तथा हि उत्पथजाताया इति न तथाकुलोद्भूतायाः। अशोभनाया इति लाव- ण्यरहितायाः । फल कुसुमपत्ररहिताया इत्येवम्भूतापि काचित्पुत्रिणी वा भ्रात्रादिपक्षप- रिपूर्णतया सम्बन्धिवर्गपोषिता वा परिरक्ष्यते । वदर्या वृत्तिं ददत्पामर भोः, हसिष्यसे सर्वलोकैरिति भावः । एवमप्रस्तुतप्रशंसां प्रसङ्गतो निरूप्य प्रकृतमेव यन्निरूपणीयं तदुप संहरति-तस्मादिति । अप्रस्तुतप्रशंसायामपि लावण्येत्यत्र श्लोके यस्माव्द्यामोहो लोकस्य दृष्टस्ततो हेतोरित्यर्थः ॥ ४० ॥
एवं व्यङ्गयस्वरूपं निरूप्य सर्वथा यत्तच्छून्यं तत्र का वार्तेति निरूपयितुमाह-- प्रधानेत्यादिना। कारिकाद्वयेन । शब्दचित्रमिति । यमकचक्रवन्धादिचित्रतया
बालप्रिया
ग्रन्थे पाठः । वाच्यार्थ इत्यादिग्रन्थं तात्पर्यतो विवृणोति लोचने-वाच्यभावनियमो नास्तीति । वाच्यार्थस्य सम्भवनियमो नास्तीत्यर्थः । नास्तीति न शक्यं वक्तु । मिति । वाच्यार्थो न सम्भवतीति वक्तुं च न शक्यमित्यर्थः । भावात् सत्त्वात् । व्यंग्यमर्थमाह-न तथेत्यादि । फलेत्यादेः पुत्र सहोदरादिरहिताया इति । वृतिमित्यस्य रक्षामिति च व्यंग्यमर्थमभिसन्धायाह-एवंभूताऽपीत्यादि । एवं भूताऽपि अकुलीना लावण्यादिगुणरहिता च भव त्यपि। परिरक्ष्यत इति । जनेनेति शेषः । इयं तु पुत्रादिरहिता च अतोऽस्या रक्षां कुर्वस्त्वं परिहासास्पदं भविष्यसो. त्यर्थः । छायां दर्शयन्ना-वदर्या इत्यादि । तस्मादित्यनेन विवक्षितं हेतुं विवृणो- ति-अप्रस्तुतप्रशंसायामपीत्यादि ॥ ४० ॥
पूर्वोत्तरग्रन्थयोः सङ्गतिं दर्शयन्नुत्तरग्रन्थमवतारयति-एवमित्याति । तच्छू. न्यमिति । व्यंग्यशून्यमित्यर्थः । का वार्तेति । को व्यवहार इत्यर्थः । कारिकाद्व. येनाहेत्यन्वयः । विभागप्रदर्शनमात्रेण सिद्धे शब्दचित्रं वाच्यचित्रमिति समशीर्षि-