अप्रस्तुतप्रशंसायां च यद्वाच्यं तस्य कदाचिद्विवक्षितत्वं, कदाचिदविवक्षि- तत्वं, कदाचिद्विवक्षिताविवक्षितत्वमिति त्रयी बन्धच्छाया । तत्र विव. क्षितत्वं यथा-
परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो |
न सम्प्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः |
यथा वा ममैव----
समी ये दृश्यन्ते ननु सुभगरूपाः सफलता |
लोचनम्
च श्रोतृजनस्यात्यादरास्पदतया प्रयत्नग्राह्यतया चोत्साहजननेनैवंभूतमत्यन्तोपादेयं सत्कतिपयसमुचित जनानुग्राहकं कृतमिति स्वात्मनि कुशलकारिताप्रदर्शनया धर्मवीर- स्पर्शनेन वीररसे विश्रान्तिरिति मन्तव्यम् । अन्यथा परिदेवितमात्रेण किं कृतं स्यात् । अप्रेक्षापूर्मकारित्वमात्मन्यावेदितं चेत्किं ततः स्वार्थपरार्थासम्भवादित्यलं बहुना ।
ननु यथास्थितस्यार्थस्यासङ्गतौ भवत्वप्रस्तुतप्रशंसा, इह तु सङ्गतिरस्त्येवेत्याशङ्कय सङ्गतावपि भवत्येवैषेति दर्शयितुमुपक्रमते-अप्रस्तुतेति । नन्विति । यैरिदं जगद्भूषितमित्यर्थः । यस्य चक्षुषो विषयता क्षणं गतानामेषां सफलता भवति तदिदं
बालप्रिया
श्रोतृजनस्योत्साहजनने हेतुद्वयम्-अत्यादरेत्यादि । अतस्येति शेषः । उत्साहेति । मतग्रहविषयकोत्साहेत्यर्थः। एवंभूतमित्यादि । मतमिति शेषः। कुशलकारितेति। सन्मतनिर्माणरूपसत्कर्मकारितेत्यर्थः । अन्यथेति । रसविश्रान्त्यभाव इत्यर्थः । परिदेवितमात्रेणेति । मात्रशब्देन पूर्वोक्तविश्रान्तिस्थलपर्यवसानव्यवच्छेदः । नन्व- प्रेक्षापूर्वकत्वमात्मनोऽनेन दशितं स्वविषयपरिदेवितस्य सर्वत्र तदावेदकत्वादिति न किंचित्करत्वविरह इत्याशंक्य परिहरति-अप्रेक्षेत्यादि ।
नन्वप्रस्तुतप्रशंसायामित्यादिग्रन्थस्य का संगतिरित्यतः प्रासङ्गिकी सेति दर्शय- नवतारयति-नन्वित्यादि । यथास्थितस्यार्थस्येति । यथाश्रुतवाच्यार्थस्येत्यर्थः । असङ्गतौ असम्भवे। इह त्विति । लावण्येत्यादौ स्वित्यर्थः । सङ्गतिरिति । वाच्या- र्थस्य सम्भव इत्यर्थः । स च पूर्वोत्तरीत्या बोध्यः । वृत्तौ 'अप्रस्तुतप्रशंसायामिति ।