पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९२
सटीकलोचनोपेतध्वन्यालोके


निरालोके लोके कथमिदमहो चक्षुरधुना
। समं जातं सवैर्न सममथवान्यैरवयवैः ।।

 अनयोर्हि द्वयोः श्लोकयोरिक्षुचक्षुषी विवक्षितस्वरूपे एव न च प्रस्तुते । महागुणस्याविषयपतितत्वादप्राप्तपरभागस्य कस्यचित्स्वरूपमुप. वर्णयितुं द्वयोरपि श्लोकयोस्तात्पर्येण प्रस्तुतत्वात् । अविवक्षितत्वं यथा-

कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं
वैराग्यादिव वक्षि, साधु विदितं कस्मादिदं कथ्यते ।


लोचनम्

चक्षुरिति सम्बन्धः । आलोको विवेकोऽपि । न सममिति । हस्तो हि परस्पर्शादा- नादावप्युपयोगी । अवयवैरिति । अतितुच्छप्रायैरित्यर्थः । अप्राप्तः पर उत्कृष्टो भागोऽर्थलाभात्मकः स्वरूपप्रथनलक्षणो वा येन तस्य । कथयामीत्यादिप्रत्युक्तिः। अनेन पदेनेदमाह-अकथनीयमेतत् श्रूयमाणं हि निर्वेदाय भवति, तथापि तु यदि निर्बन्ध स्तत्कथयामि वैराग्यादिति । काक्वा दैवहतकमित्यादिना च सूचितं ते वैराग्यमिति

बालप्रिया

अप्रस्तुतार्थवर्णनस्थल इत्यर्थः । 'विवक्षितत्वमिति । तस्येत्यनुषङ्गः । 'परार्थ' इति । पीडा नामाक्षौ निष्पीडनं सत्पुरुषे तु क्लेशः । एवं भङ्गो ग्रन्थित्रोटनं धनाभावनिमित्तको विप्लवश्च । माधुर्यं रसविशेषोऽनुल्बणत्वञ्च । विकारशकरादिश्चित्तविकारश्च । न हि सत्पुरुषाः क्रोधाद्यवस्थायामप्यसेव्याः । अक्षेत्रमूषरस्थान निर्विवेकप्रभ्वादिस्थानं च । 'किमित्यादि । मरुभुव एव दोष इति भावः । 'अमी ति । ये इत्यस्य प्रतिनिर्देशः- 'एषामिति 'यस्येत्यस्येदमिति च । ननु सुभगरूपा इत्येतद्विवृणोति लोचने-यैरि त्यादि । विवेकोऽपीत्यपिशब्देन प्रकाशरूपार्थस्य सङ्ग्रहः साम्याभावे विवक्षितं हेतुं दर्शयति-हस्ता हीत्यादि । इदमुपलक्षणं, चरणादिकं हि गमन्नाद्युपयोगि । व्यं- ग्यार्थमाह-अतितुच्छेति । भागशब्देन धनादिलाभः कीर्तिप्रसरलाभो वा ग्राह्यो द्वयो. रपि भजनीयत्वेन भागशब्दवाच्यत्वादित्याह-अर्थलाभ इत्यादि । अनेनेति । कथ. यामीत्यनेनेत्यर्थः । आह व्यञ्जयति । अकथनीयत्वे हेतुमाह-श्रूयमाणमित्यादि । श्रयमाणं न तु श्रवणोत्तरमेवेत्यतिशयितनिर्वेदहेतुत्वं श्रवणस्य द्योतयितुं शतृप्रत्ययेन निर्देशः । वैराग्यादिव वक्षीत्यत्रेवशब्दः प्रतीतो,त्वं वैराग्याद्वदसीति ज्ञायत इत्यर्थः । मदीचं वैराग्यं केन ज्ञातमित्यत आह-काक्वेत्यादि । काक्वा शोकसूचकध्वनिविकार


 १. अप्राप्तपरभागस्य, अफब्धोत्कर्षस्य । 'परभागो गुणोत्कर्षे' इति यादवः । परभागपदस्य योगार्थों लोचने द्रष्टव्यः ।