पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९०
सटीकलोचनोपेतध्वन्यालोके


मतं मम जगत्यलब्धसदृशप्रतिग्राहकं
प्रयास्यति पयोनिधेः पय इव स्वदेहे जराम् ।।

 इत्यनेनापि श्लोकेनैवंविधोऽभिप्रायः प्रकाशित एव ।


लोचनम्

दनम् । परमं यदर्थतत्त्वं कौस्तुभादिभ्योऽप्युत्तमम् , अलब्धं प्रयत्नपरीक्षितमपि न प्राप्तं सदृशं यस्य तथाभूतं प्रतिग्राहमेकैको ग्राहो जलचरः प्राणी ऐरावतोच्चैःश्रवोधन्व- न्तरिप्रायो यत्र तदलब्धसदृशप्रतिग्राहकम् ।

 एवंविध इति । परिदेवितविषय इत्यर्थः । इयति चार्थे अप्रस्तुतप्रशंसोपमा. लक्षणमलङ्कारद्वयम् । अनन्तरं तु स्वात्मनि विस्मयधामतयाद्भुते विश्रान्तिः । परस्य

बालप्रिया

अलब्धेत्यादि च । एवंभूतं मम मतं मतप्रतिपादको ग्रन्थः । अलब्धः सदृशः स्वतुल्यः प्रतिग्राहकोऽन्यान् प्रतिबोधयिता स्वयं बो । च यस्य तथाविधं सत् । स्व- देहे जरा प्रयास्यति जीर्णं भविष्यति । अनध्यवसितमित्यनेन कैमुत्येन लब्धमर्थमाह लोचने-आस्तामित्यादि । तस्येति । अवगाहनस्येत्यर्थः। परममित्यस्य विवर- णम्- -कौस्तुभादिभ्योऽप्युत्तमं यदर्थतत्त्वमिति । अदृष्टं परमं यस्मात्तथाविध. मर्थतत्त्वं कौस्तुभादि यत्र तत् । यद्गतार्थतत्त्वादुत्तममन्यत्रादृष्टमित्यर्थ इति भावः । लाभनिषेधेन तदुपायान्वेषणं सिध्यतीत्याशयेनाह-प्रयत्नेत्यादि । सदृशमिति । वस्त्विति शेषः । तथाभूतं प्रतिग्राहमिति । प्रतिप्राहमिति वीप्सायामव्ययीभावः । 'अव्ययीभावश्चेति नपुंसकत्वम् । प्रतीत्यस्य विवरणम्-एकैक इति । ग्राहशब्दश्वात्र न मुख्यार्थकः, किंतु जलचरप्राणित्वगुणयो गेनार्थान्तरवर्तीत्याह-जलचर इत्यादि । यद्गतैरावणादिजलचरसदृशं वस्त्वन्यत्र लब्धमित्यर्थः ।

 इयति चार्थ इति । उक्ते श्लोकद्वयवाच्यार्थे इत्यर्थः । अप्रस्तुतेत्यादि । लाव. ण्येत्यादावप्रस्तुतप्रशंसा अनध्यवसितेत्यादावुपमेति ,.तदात्मकालङ्कारद्वयमित्यर्थः अनन्तरन्विति । उक्तालङ्कारसुन्दरवाच्यार्थप्रतीत्युत्तरकालमित्यर्थः । स्वात्मनीति । वक्ता धर्मकीर्तिरत्र स्वात्मशब्दार्थः । विस्मयेति । विस्मयविषयत्वेनेत्यर्थः । लावण्ये- त्यादौ स्वस्य लोकगुणगणपूर्णत्वप्रतिपादनेनानध्यव सितेत्यादौ तादृङ्मतप्रवर्तकत्वप्रति- पादनेन चात्मनो विश्वोत्तरत्वप्रत्यायनात्तत्पद्यश्रोतुरात्मविषय कविस्मयजननादिति भावः। यद्वा-विस्मयधामतयेति । विस्मयाश्रयत्वेनेत्यर्थः । तत्तच्छलं केन प्रतिपादिताया. स्तथाविधस्य स्वस्य स्वमतस्य च तथाविधशोच्यावस्थायाः स्वप्नेऽप्य सम्भाव्यायाः सम्भवात् स्वस्य विस्मयः। अद्भुते विश्रान्तिरिति। सहृदयानां तद्विस्मयचर्वणयेति भावः । अनध्यववसितेत्यादिश्लोकस्य वीररसेऽपि विश्रान्तिमाह-परस्य चेत्यादि ।