पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८९
तृतीयोद्द्योतः


तस्यैवंविधविकल्पपरिहारैकव्यापारत्वात् ।न चायं श्लोकः क्वचित्प्रबन्ध इति श्रूयते, येन तत्प्रकरणानुगतार्थतास्य परिकल्प्यते । तस्मादप्रस्तुत प्रशंसेयम् । यस्मादनेन वाच्येन गुणीभूतात्मना निस्सामान्यगुणावलो- पाध्मातस्य निजमहिमोत्कर्षजनितसमत्सरजनज्वरस्य विशेषज्ञमात्मनो न कश्चिदेनापरं पश्यतः परिदेवितमेतदिति प्रकाश्यते । तथा चायं धर्मकीर्तेः श्लोक इति प्रसिद्धिः। सम्भाव्यते च तस्यैव । यस्मात् -

अनध्यवासितावगाहनमनल्पधीशक्तिना-
प्यदृष्टपरमार्थतत्त्वमधिकाभियोगैरपि ।


लोचनम्

धिक्ते कार्ष्ण्यमिति सा परं प्रस्तुतपरतयेति नात्रासम्भव इत्याशङ्कयाह-न चेति । निस्सामान्येति निजमहिमेति विशेषज्ञमिति परिदेवितमित्येतैश्चतुर्भिर्वाक्यखण्डैः क्रमेण पादचतुष्टयस्य तात्पर्यं व्याख्यातम् । नन्वत्रापि किं प्रमाणमित्याशङ्कयाह-तथा चेति । ननु किमियतेत्याशङ्कय तदाशयेन निर्विवादतदीयश्लोकार्पितेनास्याशयं संवा- दयति-सम्भाव्यत इति । अवगाहनमध्यवसितमपि न यत्र आस्तां तस्य सम्पा-

बालप्रिया

शंसालङ्कार इति बोध्यम् । लोचने-क्रमेणति । निस्सामान्यगुणेत्यनेन लावण्येत्या- द्यपादतात्पर्यार्थ उक्तः, एवंवदतो ह्यलोकसामान्यगुणगणपूर्णत्वादहो। अहमिति महीया- नवलेपः परिस्फुटं गम्यत इति भावः । अत्रापीति । अप्रस्तुत प्रशंसापक्षेऽपीत्यर्थः । वृत्तौ-'तथाचेत्यादि । चकारो हेतौ । यतोऽयं धर्मकीर्तेः श्लोक इति प्रसिद्धिरतस्त- थापूर्वोक्तार्थक इत्यर्थः । विनिश्चयवृत्त्यन्ते स्थितोऽयं श्लोक इति श्रूयते । लोचने- किमित्यादि । इयतेति । धर्मकीर्तेः श्लोक इत्येतावतेत्यर्थः। तदाशयेन धर्मकीर्ते. राशयेन । निर्विवादेति । प्रकृतोदाहरणे हि विवादो व्याजस्तुत्यप्रस्तुतप्रशंसावि. षयो न वक्ष्यमाणतदीयश्लोक इति भावः। अस्येति । लावण्येत्यादिप्रकृतश्लोकस्य- त्यर्थः । संवादयतीति । अयं भावः-यो यस्याशयोऽन्यत्र सुस्पष्टप्रतिपत्तिकस्य एव सम्भवन् अन्यत्रापरिस्फुटप्रतीतिके विषयेऽप्यध्यवसातुमुचित इत्यतो वाक्य शेष. न्यायानुसारेणात्राप्रस्तुतप्रशंसावधारणसिद्धिरिति । वृत्तौ-'सम्भाव्यते च तस्यैवेति । श्लोकोऽयं धर्मकीर्तिसम्बन्धित्वेनैवानुमीयते चेत्यर्थः । अत्र हेतुमाह-'यस्मादित्या- दि । 'अनध्यवसितेति । अनध्यवसितं सुधीभिर्न सम्पिपादयिषितमवगाहनमवबोधः, पयःपक्षे यदा दानायान्तः प्रवेशो यस्य तत् । अनल्पा धीशक्तिर्बुद्धिसामर्थ्यं यस्य तेना. प्यन्येन केनचित् कर्ता । अधिकैरभियोगैः प्रयत्नैरपि । अदृष्टानिपरमार्थतत्त्वानि यत्र । यद्गतान्युत्कृष्टार्थतत्त्वान्यदृष्टपूर्वाणीत्यर्थः। पयःपक्षे त्वेतल्लोचने विवृतम्-

 ६२ ध्व०