पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८८
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

भावादिति स्वात्मन्यत्यन्तमनुचितम् । आत्मन्यपि तद्रूपासम्भावनायां रागितायां च पशुप्रायत्वं स्यात् ।

 ननु च रागिणोऽपि कुतश्चित्कारणात्परिगृहीतकतिपयकालव्रतस्य वा रावण प्रायस्य वा सीतादिविषये दुष्यन्तप्रायस्य वाऽनिर्ज्ञातजातिविशेषे शकुन्तलादौ किमियं स्वसौ.भाग्याभिमानगर्भा तत्स्तुतिगर्भा चौक्तिर्न भवति । वीतरागस्य वा अनादिकालाभ्यस्त.रागवासनावासिततया मध्यस्थत्वेनापि तो वस्तुतस्तया पश्यतो नेय मुक्तिः न संभाव्या। न हि वीतरागो विपर्यस्तान भावान् पश्यति । न ह्यस्य वीणाकणितं काकरटितकल्पं प्रतिभाति । तस्मात्प्रस्तुतानुसारेणोभयस्यापीय मुक्तिरुपपद्यते । अप्रस्तुत प्रशंसायामपि ह्यप्रस्तुतः सम्भवन्नेवार्थो वक्तव्यः, न हि तेजसीत्यमप्रस्तुतप्रशंसा सम्भवति-अहो

बालप्रिया

सति, यद्वा-स्वात्मविषयकमित्यर्थः । अत्यन्तमनुचितमिति । काममस्तु स्वात्मव्य- तिरिक्तजनापेक्षया तुल्यरमणाभावस्य सम्भावना स्वात्मापेक्षयाऽपि तत्सम्भावना न युक्तेत्यतस्तद्वचनमत्यन्तानुचितमित्यर्थः । कुतोऽनौचित्यमित्यत आह-आत्म- न्यपीत्यादि । तद्रूपासम्भावनायामिति । तदनुरूपसौन्दर्यस्य सम्भावनाया अभावे सतीत्यर्थः । तुल्यरमणत्वसम्भावनाया अभावे सतीत्यर्थो वा ।रागितायां तद्रागित्वे सति ।

 श्लोकस्यास्य प्रबन्धान्तर्गतत्वे यथा प्रकरणानुगुणार्थपरिकल्पनं, चेत्यादिग्रन्थमवतारयति ननु चेत्यादि । रागिणोडपीयमुक्तिः किन्न भवतीति सम्बन्धः,भवत्येवेत्यर्थः। ननु तदभाव उक्त एवेत्यत आह -कृतश्रिादित्यादि । स्वसौभाग्याभिमान गर्भेति । तुल्य रमणाभावादिति तु स्वव्यतिरिक्तजनापेक्षयेति भावः । रागिजनोक्तित्वमुपपाद्य वीतरागोक्तित्वमः पपादयति- वीतेत्यादि । वीत- रागस्य वा इय मुक्तिन न सम्भाव्येति सम्बन्धः, सम्भाव्यै वेत्यर्थः । अत्र हेतुमाह- अनादीत्यादि । तथा पश्यतः निर'तशयलावण्यादिगुणशालितया पश्यतः। तथा दर्शनाच्च पूर्वरागवासनावशात् तथाविधोक्तिः सम्भवत्येवेत्यर्थः । वस्तुतस्तथा पश्यत इत्येतदुपपादयति-न हीत्यादि । निगमयति-तस्मादिति । उभयस्य रागिणी वीतरागस्य च । उक्तमेव द्रढयितुमाह -अप्रस्तुतेत्यादि । सम्भवन्नेवाप्रस्तुतोऽर्थो वक्तव्य इति सम्बन्धः । व्यतिरेकप्रदर्शनेनोक्तमेव साधयति-न हीत्यादि । तेजसि प्रस्तुततेजोविषये । विशेषमाह-सेत्यादि । सा अप्रस्तुतप्रशंसा । प्रस्तुतपरतया प्रस्तुतार्थतात्पर्यकतया । इतीति हेतौ। अत्रेति। लावण्येत्यादावित्यर्थः । नास- म्भव इति । अभिधेयस्येति शेषः। किन्तूक्तरीत्या सम्भवोऽस्तीति भावः । वृत्तौ- 'अप्रस्तुत प्रशंसेति । सारूप्यनिबन्धनाऽप्रस्तुतप्रशंसेत्यर्थः । 'गुणीभूतात्मने ति । उपायभूतेनेत्यर्थः । अत्र व्यंग्योपस्कृतस्य वाच्यार्थस्यैव प्राधान्यमित्यतोऽप्रस्तुत प्र. तथा प्रदर्य न