पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८७
तृतीयोद्द्योतः


र्तते | यथा-

लावण्यद्रविणव्ययो न गणितः क्लेशो महान् स्वीकृतः
स्वच्छन्दस्य सुखं जनस्य वसतः चिन्तानलो दीपितः ।
एषापि स्वयमेव तुत्यरमणाभावाद्वराकी हता
"कोऽर्थश्चेतसि वेधसा. विनिहितस्तन्व्यास्तनुं तन्वता ॥

 इत्यत्र व्याजस्तुतिरलङ्कार इति व्याख्यायि केनचित्तन्न चतुरस्त्रम् ; यतोऽस्याभिधेयस्यैतदलङ्कारस्वरूपमात्रपर्यवसायित्वे न सुश्लिष्टता । यतो न तावदयं रागिणः कस्यचिद्विकल्पः । तस्य 'एषापि स्वयमेव तुल्यर- मणाभावाद्वराकी हता' इत्येवंविधोक्त्यनुपपत्तेः । नापि नीरागस्य 3;


लोचनम्

काराभिप्रायः। द्रविणशब्देन सर्वस्वप्रायवमनेकस्वकृत्योपगित्वमुक्तम् । गणित इति । चिरेण हि यो व्ययः सम्पद्यते न तु विद्युदिव झटिति तत्रावश्यं गणनया भवितव्यम् । अनन्त कालनिर्माणकारिणोऽपि तु विधेर्न विवेकलेशोऽप्युदभूदिति परमस्याप्रेक्षावत्त्वम् । अत एवाह-क्लेशो महानिति । स्वच्छन्दस्येति । विशृङ्खलस्येत्यर्थः । एषा- पीति । यत्स्वयं निर्मीयते तदेव च निहन्यत इति महद्वेशसमपिशब्देन वकारेण चोक्तम् । कोऽर्थ इति । न स्वात्मनो न लोकस्य न निर्मितस्येत्यर्थः । तस्येति । रागिणो हि वराकी हतेति कृपणतालिङ्गितममङ्गलोपहतं चानुचितं वचनम् । तुल्यरमणा-

बालप्रिया

नुनिर्माणं तत्कारिणोऽपीत्यर्थः । नोभूदिति । तदगणनयेति भावः । अस्य विधेः । अप्रेक्षावत्त्वम् अविमृश्य कारित्वम् । उक्तमित्यनुषङ्गः । निर्माणझाटित्याभावविवक्षायां गमकमाह-अतएवेत्यादि । पादत्रयोक्तानां त्रयाणामेकेन योग्यो नं कश्चिदर्थो निरूप्यमाणो दृश्यत इत्याह-न स्वात्मन इत्यादि । अर्थ इत्यनुषज्यते । वृत्तौ 'व्याजस्तुतिरलङ्कार' इति । निन्दाद्वारा नायिकायाः स्तुतेः प्रतीतेरिति भावः । 'न सुश्लिष्टते'ति । सुष्ठ सङ्गतत्वं न भवतीत्यर्थः । अत्र हेतुमाह-'यत' इत्यादि । 'अयमिति । श्लोकोक्त इत्यर्थः । 'विकल्पः विविधकल्पनाविषयः । नेत्यत्र हेतुमाह- 'तस्येत्यादि । कथं रागिणस्तथाविधोक्त्यनुपपत्तिरित्यत उपपादयति लोचने-रा- गिणो हीत्यादि । वराकीति कृपणतालिङ्गितं हतेत्यमङ्गलोपहतं च वचनं रागिणो ह्यनु. चितमिति सम्बन्धः । रागी हि तन्निमग्नचित्तवृत्तितया तामेव बहुमन्यमानस्तद्रूपसु. षमासुधामास्वादयन् कथङ्कारं तस्याः शोच्यत्वममङ्गलत्वं च पर्यालोचयेदिति भावः । तुल्यरमणाभावादितीति । रागिणो वचनमित्यनुषङ्गः । स्वात्मनीति । स्वात्मनि