पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८६
सटीकलोचनोपेतध्वन्यालोके


 इत्यादौ । वाच्यव्यङ्ग्ययोः प्राधान्याप्राधान्यविवेके परः प्रयत्नो वि. धातव्यः, येन ध्वनिर्गुणीभूतव्यङ्गययोरलङ्काराणां चासङ्कीर्णो विषयः सुज्ञातो भवति । अन्यथा तु प्रसिद्धालङ्कारविषय एव व्यामोहः प्रव


लोचनम्

रीतकारित्वादि तस्यैवानुयायि, तच्चापिशब्दाभ्यामुभयतो योजिताभ्यां चशब्देन स्था- नत्रययोजितेन खलुशब्देन चोभयतो योजितेन मानवशब्देन स्पृथ्मेवेति गुणीभूतम् । विवेकदर्शना चेयं न निरुपयोगीति दर्शयति--वाच्यव्यङ्गययोरिति । अलङ्का- राणां चेति । यत्र व्यङ्गयं नास्त्येव तत्र तेषां शुद्धानां प्राधान्यम् । अन्यथा त्विति । यदि प्रयत्नवता न भूयत इत्यर्थः ।

 व्यङ्गयप्रकारस्तु यो मया पूर्वमुत्प्रेक्षितस्तस्यासंदिग्धमेव व्यामोहस्थानत्वमित्येव

बालप्रिया

एवकारेण शान्तरसनिष्ठत्वव्यवच्छेदः । ननु तथाऽप्यत्र राजसेवादेरसम्भाव्यत्वादिकं व्यज्यते, तत एव च चमत्कार इत्यत आह-व्यंग्यन्त्वित्यादि । विपरीतेति। उद्दि- ष्टफलविपरीतफलेत्यर्थः । तस्यैवेति । वाच्यस्यैवेत्यर्थः । अनुयायीति । अङ्गमि- त्यर्थः । तदेव हेतुप्रदर्शनेनोपपादयति-तच्चेत्यादि । तच्च स्पृष्टमेवेति सम्बन्धः । उभयतो योजिताभ्यामिति । राजानमपि सेवन्ते अपि विषमपि उपभुञ्जते अपि इति कर्मणा क्रियया च योजिताभ्यामित्यर्थः । राजा तावत्कर्ममूतो यो दुरुप सर्पवस्तुषु मूर्धाभिषिक्तः। सेवाक्रियाया क्षणे क्षणे सुलभापायतया समाहितमतिभिरपि दुरनुष्ठेया । एवमन्यत्रापि योध्यम् । स्थानत्रययोजितेन चशब्देनेति । एको द्योतको बहुव- न्त्य इति न्यायाद्रमन्ते चेति चकारस्य समुच्चयार्थकस्य क्रियात्रयेण योजनेत्यर्थः । उभयतो योजितेन खलुशब्देनेति । खलुशब्दः कुशलशब्देन मानवशब्देन च योजनीय इत्यर्थः । मानवशब्देन चेति योजना । स्पृष्टमिति । किंचित्प्रकाशितमि- त्यर्थः । इतीति हेतौ । अलङ्काराणामसङ्कीर्णो विषयः क इत्यत्राह-यत्रेत्यादि । तेषा मिति । अलङ्काराणामित्यर्थः ।

 प्रसिद्धालङ्कारविषय एवेत्येवकारेण किमुत व्यंग्यविषय इत्यर्थो दर्शित इत्याह- व्यंग्यप्रकार स्त्वित्यादि । उत्प्रेक्षितः उत्प्रेक्ष्य दर्शितः । व्यमोहस्थानत्वं व्यमोहविषयत्वम् । उदाहृतश्लोकगतानां पदानां व्यंग्यं दर्शयति-द्रविणेत्यादि । द्रविणशब्देनेति । लावण्ये द्रविणत्वारोपेणेत्यर्थः । उक्तमिति। लावण्यस्य व्यञ्जित- मित्यर्थः । विदित इत्यनुक्त्वा गणित इत्युक्त्या व्यंग्यमाह-चिरेणेत्यादि । तत्रेति । तथाविधे व्यय इत्यर्थः । अनन्तेति । अनन्तेनानवधिना कालेन यन्निर्माणं तन्वीत-