पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८५
तृतीयोद्योतः


 एवं स्थिते च 'न्यक्कारो ह्ययमेव' इत्यादिश्लोकानर्दिष्टानां पदानां व्य- गयविशिष्टवाच्यप्रतिपादनेऽप्येतद्वाक्यार्थीभूतरसापेक्षया व्यञ्जकत्वमुक्तम् । न तेषां पदानामर्थान्तरसंक्रमितवाच्यध्वनिश्रमो विधातव्यः, विवक्षित. वाच्यत्वातेषाम् । तेषु हि व्यङ्गयविशिष्टत्वं वाच्यस्य प्रतीयते न तु व्यङ्गरूपपरिणतत्वम् । तस्माद्वाक्यं तत्र ध्वनिः, पदानि तु गुणीभूत- व्यङ्ग्यानि । न च केवलं गुणीभूतव्यङ्गयान्येव पदान्यलक्ष्यक्रमव्यङ्गय. ध्वनेर्व्यञ्जकानि यावदर्थान्तरसंक्रमितवाच्यानि ध्वनिप्रभेदरूपाण्यपि । यथात्रैव श्लोके रावण इत्यस्य प्रभेदान्तररूपव्यञ्जकत्वम् । यत्र तु वाक्ये रसादितात्पर्यं नास्ति गुणीभूतव्यङ्गयैः पदैरुद्भासितेऽपि तत्र गुणीभूतव्य- ङ्गयतैव समुदायधर्मः । यथा-

राजानमपि सेवन्ते विषममप्युपयुञ्जते ।
रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः ॥


लोचनम्

वयोगित्वमेव प्राधान्यं नान्यत्किञ्चिदित्यलं पूर्ववेश्यैः सह विवादेन ।

 एवं स्थित इति । अनन्तरोक्तेन प्रकारेण ध्वनिगुणीभूतव्यङ्गययोर्विभागे स्थिते सतीत्यर्थः । कारिकागतमपिशब्दं व्याख्यातुमाह-न चेति । एष च श्लोकः पूर्वमेव व्याख्यात इति न पुनर्लिख्यते । यत्र त्विति । यद्यपि चात्र विषयनिर्वेदात्मकशा- न्तरसप्रतीतिरस्ति, तथापि चमत्कारोऽयं वाच्यनिष्ठ एव । व्यङ्गयं त्वसम्भाव्यत्वविप.

बालप्रिया

तति, न तु गुणवमित्यर्थः। अतो वाच्यं प्रत्येव गुणीभावो वक्तव्य इति भावः । वृत्तौ-‘पदानामित्यादि । व्यंग्यार्थाः पूर्वमुक्ताः। 'वाक्यार्थोभूतरसे'ति । रौद्ररसेत्यर्थः । प्रसादादह-'न तेषामित्यादि ।

 'न च केवल'मित्यादिग्रन्थस्योत्सूत्रत्वशङ्कां परिहर्तुमाह लोचने-कारिके. त्यादि । अपिशब्दं गुणीभूतव्यंग्योऽपीत्यपिशब्दम् । व्याख्यातुमिति । अपि शब्दोऽनुक्तसमुच्चायक इति भावः । ननु राजानमित्यादौ कथं रसादितात्पर्याभावः । राजसेव दिव्यवहारोपलक्षितस्य विषोपभोगतुल्यस्य सर्वस्यापि . लौकिकव्यवहारस्य विषयवैरस्यापादकतया शान्तरसव्यंजकत्वादिति शङ्कामनूद्य परिहरति-पद्यपी. त्यादि । अयमिति । सहृदयैरनुभूयमान इत्यर्थः । वाच्यार्थनिष्ठ इति । यतो राजा. देरपि सेवादिकं कुर्वन्ति, ततो मानवाः कुशलाः खल्विति वाच्यार्थप्रयुक्त इत्यर्थः ।