पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८४
सटीकलोचनोपेतध्वन्यालोके


कठोर स्त्रीचेतस्तदलमुपचारैर्विरम हे
क्रियाकल्याणं वो हरिरनुनयेष्वेवमुदितः ॥


लोचनम्

यन्मां विस्मृत्य तामेव कुपितां मन्यसे । अन्यथा कथमेवं कुर्याः। पतितामिति । गत इदानीं रोदनावकाशोऽपीत्यर्थः । यदि तूच्यते इयताप्यादरेण किमिति कोपं न मुञ्चसि, तत्किं क्रियते कठोरस्वभावं स्त्रीचेतः । स्त्रीति हि प्रेमाद्ययोगाद्वस्तुविशेषमा. त्रमेतत् ; तस्य चैष स्वभावः, आत्मनि चैतत्सुकुमारहृदया योषित इति न किंचिद्वज्र- साराधिकमासां हृदयं यदेवंविधवृत्तान्तसाक्षात्कारेऽपि सहस्रधा न दलति । उपचारै- रिति । दाक्षिण्य प्रयुक्तः । अनुनयविति बहुवचनेन वारं वारमस्य बहुवल्लभस्येयमेव स्थितिरिति सौभाग्यातिशय उक्तः । एवमेष व्यायार्थसारो वाच्यं भूषयति । तत्तु वाच्य भूषितं सदीाविप्रलम्भाङ्गत्वमेतीति । यस्तु त्रिष्वपि इलोकेषु प्रतीयमानस्यैव रसाङ्गत्वं व्याचष्टे स्म । स देवं विक्रोय तद्यात्रोत्सवमकार्षीत् । एवं हि व्यायस्य या गुणीभूतता प्रकृता सैव समूलं त्रुट येत् । रसादिश्यतिरित्तस्य हि व्यायस्य रसाभा-

बालप्रिया

न्धः । पतितमिति भूतनिर्देशेन व्यङ्गमाह-गत इत्यादि । कठोरमित्यादिकं विवरि. ष्यन्नाह- यदीत्यादि । मुञ्चसीत्यस्यानन्तरमितीति शेषः । इत्युच्यते यदीति सम्ब- न्धः । तत् तहिं । स्त्रीति पदेन व्यंग्यमाह-प्रेमादीति । स्त्रीति ह्येतदिति सम्बन्धः । एष इति । कठोर हृदयरत्वमित्यर्थः । एवं बोधनीयं प्रति व्यंग्यमुक्त्वा राधागतं व्यंग्यमाह-आत्मनीत्यादि । आत्मनि चैतदिति । वक्ष्यमाणं राधागतं व्यंग्य- मित्यर्थः । इतीति । इत्येतदित्यर्थः । न किञ्चिदिति । अपरमार्थमित्यर्थः ।उक्त- स्य व्यंग्यजातस्य वाच्यं प्रति तस्य रसं प्रति चाङ्गभावमाह-एवमित्यादि । व्या- ख्यानान्तरमनुवदति-यस्वित्यादि । प्रतीयमानस्यैवेति । एवलारेण प्रतीयमा. नोपस्कृतस्य वाच्यार्थस्य व्यवच्छेद. । व्याचष्टे स्मेति । व्याख्यातुरस्यायमाशयः- यस्य हि मुख्य प्राधान्यं तं प्रत्येव गुणीभावोऽन्याय्यः रसस्यैव च तस्प्राधान्यमिति नेदं व्याख्यानं साधीय इत्युपहासोक्त्या दर्शयति-स देवमित्यादि । यथा कश्चि- न्निर्धनतया देवं विक्रीय धनं सम्पाद्य तयात्रोत्सवं कर्तुभारभते, तथा गुणीभूतव्यंग्यो- पपादनाय प्रवृत्तस्तद्विरोधिनं कंचित्प्रकारमाश्रित इति महत्तरमस्य कौशलमित्युपहासः । एतदेव स्फुटयति-एवं हीत्यादि । ननु व्यंग्यस्य रसं प्रति गुणीभावोऽङ्गीकृत एवेति कथं स त्रुटद्येवित्यत आह-रसादीत्यादि । रसादिष्यतिरिक्तस्य व्यं. ग्यस्य वस्त्वलङ्कारात्मकस्य । रसाङ्गत्यादि । व्यङ्गयै कस्वभावस्य रसादेस्तावत्स्वत एव प्राधान्यं, तद्वयतिरिक्तत्य तु तदङ्गनत्वेनेत्यतस्तस्य तदङ्गत्वे प्राधान्यमेवाप. उक्त-