पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८३
तृतीयोद्द्योतः


प्रकारोऽयं गुणीभूतव्यङ्गयोऽपि ध्वनिरूपताम् ।
धत्ते रसादितात्पर्य पर्यालोचनया पुनः ॥ ४० ॥

 गुणीभूतव्यङ्गयोऽपि काव्यप्रकारो रसभावादितात्पर्यालोचने पुनर्ध्व-

निरेव सम्पद्यते । यथात्रैवानन्तरोदाहृते श्लोकद्वये । यथा च-

दुराराधा राधा सुभग यदनेनापि मृजत-
स्तवैतत्प्राणेशाजधनवसनेनाश्रु पतितम् ।


लोचनम्

 एतदेव निर्वाहयन् काव्यात्मत्वं ध्वनेरेव परिदीपयति-प्रकार इति । श्लोकद्वय इति तुल्यच्छायं यदुदाहृतं पत्युरित्यादि तत्रेति, द्वयशब्दादेवंवादिनीत्यस्यानवकाशः । दुराराधेति । अकारणकुपिता पादपतिते मयि न प्रसीदसि अहो दुराराधासि मा रोदीरित्युक्तिपूर्वं प्रियतमेऽश्रूणि मार्जयति इयमस्या अभ्युपगमगर्भोक्तिः। सुभगेति । प्रियया यः स्वसंभोगभूषणविहीनः क्षणमपि मोक्तुं न पार्यसे । अनेनापीति । पश्येदं प्रत्यक्षेणेत्यर्थः । तदेव च यदेवमादृतं यत् लज्जादित्यागेनाप्येवं धार्यते । मृजत इत्यनेन हि प्रत्युत स्रोतस्सहस्रवाही बाष्पो भवति । इयच्च त्वं हतचेतनो

बालप्रिया

 एतदेवेति । गुणीभूतव्यंग्यस्य रसादिध्वनिरूपत्वं यदा सूत्रितं तदेवेत्यर्थः । तुल्यच्छायमिति । पत्युरित्यादौ प्रयच्छतेत्यादौ च भावध्वनेर्वचन निषेधरूपवा. च्यार्थोपस्कारकत्वस्यावगमात्तयोः तुल्यच्छायत्वम् । 'दुराराधेति । हे सुभग | यत् पतितमेतदनु अनेन प्राणेशाजघनवसनेनापि मृजतस्तव राधा दुराराधा स्त्रीचेतः कठोरं तदुपचारैरलं, हे त्वं विरम, अनुनयेष्वेवमुदितो हरिः वः कल्याणं क्रियादि- त्यन्वयः । लोचने श्लोकं व्याकरिष्यन् पीठिकामारचयति-अकारणेत्यादि । श्लोक- गतानां पदानां व्यंग्यमर्थजातमासूत्रयति-सुभगेतीत्यादि । य इति । त्वमिति शेषः । न पार्यस इति । इत्येवं राधागताभिप्राय इत्यर्थः । व्यज्यत इति शेषः । एवमुत्तरत्रापि बोध्यम् । व्यंग्यान्तरमाह-तदेव चेति । इदमित्यनुषज्यते । एव. मादृतमित्येतत् स्फुटयति-यदित्यादि । मृजत इति वर्तमानार्थकप्रत्ययेन मार्जन- स्याविरामत्वोक्या व्यंग्यमाह-अनेन हि प्रत्युतेत्यादि । प्रकृत्यंशव्यंग्यमाह-इय. च्चेत्यादि । मामिति । पुरःस्थितामपि मामित्यर्थः । मन्यस इत्यनेनाप्यस्य सम्ब-


शस्तु न्याय्य एवेति भावः । यत्तु वाच्यस्यापीत्यपिना रसस्य परामर्शः । अनुरणन- रूपव्यङ्गयापेक्षया वाच्यस्य वाच्यापेक्षया च रसस्य प्राधान्यं सुसङघटमेवेति, तन्न; अग्रिमकारिकया पौनरुक्त्यापत्तः।