पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८२
सटीकलोचनोपेतध्वन्यालोके


यथा च-

प्रायच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता ।
न किञ्चिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् ॥

 इत्यत्र 'निर्वचनं जघान' 'न किञ्चिदूचे' इति प्रतिषेधमुखेन व्य. ङ्गयस्यार्थस्योक्त्या किञ्चिद्विषयीकृतत्वाद्गुणीभाव एव शोभते । यदा वक्रोक्तिं विना व्यङ्गयोऽर्थस्तात्पर्येण प्रतीयते तदा तस्य प्राधान्यम् । यथा 'एवं वादिनि देवर्षौ' इत्यादौ । इह पुनरुक्तिर्भङ्गथास्तीति वाच्य- स्यापि प्राधान्यम् । तस्मान्नात्रानुरणनरूपव्यङ्गयध्वनिव्यपदेशो विधेयः ।


लोचनस्

 प्रायच्छतेति । उच्चैरिति। उच्चैर्यानि कुसुमानि कान्तया स्वयं ग्रहीतुमश- क्यत्वायाचितानीत्यर्थः। अस्मदुपाध्यायास्तु हृद्यतमानि पुष्पाणि अमुके, गृहाण गृहाणे- त्युच्चैस्तारस्वरेणादरातिशयार्थं प्रयच्छता । अत एव लम्भितेति । न किंचिदिति । एवं विधेषु श्रृङ्गारावसरेषु तामेवायं स्मरतीति मानप्रदर्शनमेवात्र न युक्तमिति सातिश- यमन्युसंभारो व्यङ्गयो वचननिषेधस्यैव वाच्यस्य संस्कारः। तद्वक्ष्यति-उक्तिर्भङ्गया- स्तीति । तस्येति व्यङ्गयस्य । इहेति पत्युरित्यादौ । वाच्यस्यापीति । अपिशब्दो भिन्नक्रमः । प्राधान्यमपि भवति वाच्यस्य, रसाद्यपेक्षया तु गुणतापीत्यर्थः । अत एवोपसंहारे ध्वनिशब्दस्य विशेषणमुक्तम् ॥ ३९ ॥

बालप्रिया

उच्चैर्यानीत्यादि । एतद्विशेषणव्यंग्यमाह-कान्तयेत्यादि । उच्चैःशब्दस्य तार- स्वरार्थकत्वं प्रदानक्रियाविशेषणत्वं च स्वाभिमतमित्याह-अस्मदित्यादि। अमुक इति । पाणितलादिपात्र इत्यर्थः । पुष्पाणीत्यनेन सम्बन्धः। उच्चैरित्यस्य व्याख्या. नम्-तारस्वरेणेति । तारस्वरेण दाने निमित्तमादरातिशयद्योतनमित्याह- आदरेति । उक्तार्थसामन्जस्यद्रढिम्ने पदान्तरमनुकूलयति-अतएवेत्यादि । अत एव तारस्वरेण कुसुमदानादेव । 'न किंचिदूच' इत्यस्य प्रयोजनं दर्शयन् व्यंग्य- माह-एवंविधेष्वित्यादि । मानप्रदर्शन मिति । अक्षिविवर्तनाद्यनुभावद्वारेति भावः । तदिति । व्यंग्यस्य वाच्योपस्कारकतया वाच्यायमानत्वमित्यर्थः । भिन्नक्रम इति । अन्यथा व्याहतस्स्यादिति भावः । विशेषणमिति । अनुरणनेत्या- दिविशेषणमित्यर्थः । असंलक्ष्यक्रमव्यंग्यध्वनिरूपत्वस्यात्रापि सत्त्वद्योतकं हि तद्विशे- षणमिति भावः ॥ ३९ ॥


 १. ध्वनिशब्दस्य विशेषणम्-अनुरणनरूपव्ययेति । एवं च रसध्वनिव्यपदे.