पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८१
तृतीयोद्द्योतः


तत्र यस्य युक्तिसहायता तत्र तेन व्यपदेशः कर्तव्यः । न सर्वत्र ध्वनि- रागिणा भवितव्यम् । यथा-

पत्युः शिरश्चन्द्र कलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ।।


लोचनम्

वात्र युक्तिः । पत्युरिति । अनेनेति । अलक्तके परक्तस्य हि चन्द्रमसः परभागलाभोऽनवरतपादयतनप्रसादैर्विना न पत्युर्झटिति यथेष्टानुवर्तिन्या भा. व्यमिति चोपदेशः । शिरोधृता या चन्द्रकला तामपि परिभवेति सपत्नीलोकाप- जय उक्तः ।

 निर्वचन मिति । अनेन लज्जावहित्थहर्षेासाध्वससौभाग्याभिमानप्रभृति य- द्यपि ध्वन्यते, तथापि तन्निर्वचनशब्दार्थस्य कुमारीज- नोचितस्याप्रतिपत्तिलक्षणस्यार्थ- स्योपस्कारकतां केवलमाचरति । उपस्कृतस्त्वर्थः शृङ्गारङ्गतामेतीति ।

बालप्रिया

मर्श विना तं विषयमित्यर्थः । न्यायवित्सम्मतस्य युक्तिपदार्थस्यात्रासम्भवात्तत्पदं व्याचष्टे-चारुत्वेत्यादि । अत्र काव्यार्थतत्वचिन्ताविषये । यदि व्यङ्गयपकृताद्वा- च्यादेव स चेतश्चमत्कार लाभः, तदा गुणीभूतव्यङ्गयत्वं; यदा तु व्यङ्गयादेव न्यक्कृ. तवाच्यात्तदा ध्वनित्वमिति चारूत्वप्रतीतिरूप कार्यबलादेव तदन्यतरावधारणसिद्धिरि- त्यर्थः । स्पृशेत्यन्नेन व्यज्यमानमर्थद्वयं दर्शयति-मलतकेत्यादि । परभागलाभ इति । चन्द्रमसोऽतिधवलत्वादलक्तकस्य रक्तत्वाच्चेति भावः। अलक्तकोपरजिनत्वरू- पविशेषणांशव्यङ्गयमुक्त्वा चरणेन शिरस्पर्शन विधिना व्यङ्गयमाह-अनवरते. त्यादि । झटितीति । नैसर्गिकविरतिशयरागपारतन्त्र्य बलात्कारादित्यर्थः । शिरो- धिकरणकत्व विशेषणोपकृतेन स्त्रीलिङ्गनिर्देशेन व्यङ्गय माह- शिरोवृतेत्यादि ।उक्तइति । व्यञ्जित इत्यर्थः ।

 'निर्वचनमि'त्यादिवृत्तिग्रन्थेन दर्शितं व्यंग्यं तस्य गुणीभावं च प्रदर्शयति- अनेनेत्यादि । अनेन निर्वचनं जयानेत्यनेन । तदिति । लज्जादिव्यंग्यजातमि. त्यर्थः । कुमारीजनोजितस्येति । अनेन वाच्यार्थस्य चमत्कारकारित्वयोग्यता दर्शिता । उपस्कृतस्त्वर्थ इति । उक्तव्यंग्योपस्कृतो निर्वचनं जघाने ति वाच्यार्थ इत्यर्थः । शृङ्गारेति । विप्रेलम्भश्रृङ्गारेत्यर्थः ।

उच्चैः शब्दस्योर्ध्वदेशस्थितार्थकत्वं कुसुमविशेषणत्वं चाभिप्रेत्य व्याचष्टे-

 ६१ ध्व०