पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८०
सटीकलोचनोपेतध्वन्यालोके


तद्विशिष्टवाच्यप्रतीतिस्तदा गुणीमूतव्यङ्गयतया तथाविधार्थद्योतिनः का- व्यस्य व्यपदेशः । व्यङ्गथविशिष्टवाच्याभिधायिनो हि गुणीभूतव्यङ्गयत्वम् ।

प्रभेदस्यास्प विषयो यश्च युक्त्या प्रतीयते ।
विधातव्या सहृदयैर्न तत्र ध्वनियोजना ॥ ३९ ॥

 सङ्कीर्णो हि कश्चिद्ध्वनेर्गुणीभूतव्यङ्गयस्य च लक्ष्ये दृश्यते मार्गः।


लोचनम्

त्यादिना । नन्वेवं व्यङ्ग्यत्वं कथमित्याशङ्कयाह-स चेति । अधुना गुणीभावं दर्शयति-वाचकत्वेति । वाचकत्वेऽनुगमो गुणत्वं व्यङ्गयव्यञ्जकभावस्य व्यङ्गथवि. शिष्टवाच्यप्रतीत्या तत्रैव काव्यस्य प्रकाशकत्वं कल्प्यते; तेन च तथा व्यपदेश इति काकुयोजनायां सर्वत्र गुणीभूतव्यङ्गयतैव । अत एव 'मध्नामि कौरवशतं समरे न कोपात्' इत्यदौ विपरीतलक्षणां य आहुस्ते न सम्यक्पराममृशुः । यतोऽत्रोच्चारणकाल एव 'न कोपात्' इति दीप्ततारगद्गदसाकाङ्क्षकाकुबलान्निषेधस्य निषिध्यमानतयैव युधिष्ठिराभिमतसन्धिमार्गाक्षमारूपत्वाभिप्रायेण प्रतिपत्तिरिति मुख्यार्थबाधाद्यनुसरणवि- घ्नाभावात्को लक्षणाया अवकाशः । 'दर्शे यजेत' इत्यत्र तु तथाविधकाकाद्युपायान्तरा• भावाद्भवतु विपरीतलक्षणा इत्यलमवान्तरेण बहुना ॥ ३८ ॥

 अधुना संकीर्णं विषयं विभजते-प्रभेदस्येति। युक्त्येति । चारूत्वप्रतीतिरे-

बालप्रिया

विवरणम्-गुणत्वमिति । कस्येत्यतः पूरयति-व्यङ्गयेत्यादि । तद्विशिष्टे'त्यादि. वृत्तिग्रन्थविवरणम् -व्यङ्ग्यविशिष्टेत्यादि । तत्रैव व्यङ्ग्यविशिष्टवाच्य एव । प्रकाशकत्वं बोधकत्वम् । वृत्तौ 'यदा तदेत्यनयोर्यतस्तत इत्यर्थौ बोध्यौ । मथ्ना. मीत्यादि । प्रतिज्ञातकौरवशतवधस्य क्रुद्धस्य भीमसेनस्य वचनमिदमत एव न मथ्नामीत्यादौ विपरीतलक्षणेति केचित्तदाह-विपरीतेत्यादि । इति निषेधस्य निषि- द्धयमानतयैव प्रतिपत्तिरिति सम्बन्धः। काकुकल्पनायां हेतु:---युधिष्ठिरेत्यादि । युधिष्ठिराभिमतो यस्सन्धिमार्गस्तस्य यदक्षमारूपत्वमक्षम्यत्वं तदभिप्रायो भीमगत- स्तेनेत्यर्थः । इतीत्यादि । अयं भावः-न मध्नामीत्यादिरूपस्य मथनादिनिषेध- स्यादौ प्रतीतिः पश्चात्तु मथ्नाम्येवेत्यादिरूपस्य तन्निषेधनिषेधस्य प्रतीतिरिति न, किन्तू- च्चारणकाल एव काकुबलान्मथनादिनिषेधस्य निषेधप्रतियोगित्वेनैव न मथ्नामि नेत्या. कारिका प्रतीतिरतो मथनादिनिषेधस्य वाच्यस्य निषेधो , व्यङ्गय एवेति । प्रसा- न्मामांसकं प्रत्याह-दर्श इत्यादि । न दृश्यते चन्द्रोऽत्रेति व्युत्पत्त्या दर्शशब्दोऽ मावास्यायां प्रयुज्यते । तथाचात्र दृशधातोर्दर्शनाभावे विपरीतलक्षणेति भावः । स्पष्टमिदं श्रौतसूत्रव्याख्याने ॥ ३८ ॥

 सङ्कीर्णं विषयमिति । प्रमुख एवान्यतरावधारणनियमासम्भवो यत्र युक्तिपरा-