पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७९
तृतीयोद्योतः


यथा वा-आम असहओ ओरम पइव्वए ण तुऍ मलिणिअं सीलम् ।

किं उण जणस्त जाअ व्व चन्दिलं तं ण कामेमो॥

 शब्दशक्तिरेव हि स्वाभिधेयसामर्थ्याक्षिप्तकाकुसहाया सत्यविशेष. प्रतिपत्तिहेतुर्न काकुमात्रम् | विषयान्तरे स्वेच्छाकृतात्काकुमात्रात्तथावि. धार्थप्रतिपत्त्यसम्भवात् । स चार्थः काकुविशेषसहायशब्दव्यापारोपारू- ढोऽध्यर्थसामर्थ्यलभ्य इति व्यङ्गयरूप एव । वाचकत्वानुगमेनैव तु यदा


लोचनम्

काकुरसम्भाव्योऽयमर्थोऽत्यर्थमनुचितश्चेत्यमुं व्यङ्गयमर्थं स्पृशन्ती तेनैवोपकृता सती क्रोधानुभावरूपतां व्यङ्गयोपस्कृतस्य वाच्यस्यैवाधत्ते । आमेति ।

आम असत्यः उपरम पतिव्रते न त्वया मलिनितं शीलम् ।
किं पुनर्जनस्य जायेव नापितं तं न कामयामहे ॥

 इति च्छाया । आम असत्यो भवामः इत्यभ्युपगमकाकुः साकाङ्क्षोपहासा । उप- रमेति निराकाङ्क्षतया सूचनगर्भा । पतिव्रते इति दीप्तस्मितयोगिनी । न त्वया मलिनितं शोलमिति सगद्गदाकाङ्क्षा । किं पुनर्जनस्य जायेव मन्मथान्धीकृता, चन्दिलं नापित- मिति पामरप्रकृतिं न कामयामहे इति निराकाङ्क्षगद्गदोपहासगर्भा। एषा हि कया- चिन्नापि ।।नुरक्तया कुलवध्वा दृष्टाविनयाया उपहास्यमानायाः प्रत्युपहासावेशगर्भोक्तिः काकुप्रधानैवेति । गुणीभावं दर्शयितुं शब्दस्पृष्टतां तावत्साधयति-शब्दशक्तिरेवे-

बालप्रिया

र्थः । दीप्ततारावलङ्कारान्तर्गतौ प्रशमनोद्दीपने त्वङ्गान्तर्गते इति विवेकः। भयमर्थ इति । मयि जीवति धार्तराष्ट्राः स्वस्था भवन्तीति वाच्यार्थं इत्यर्थः । स्पृशन्तीति । विषयोकुर्वाणा सतीत्यर्थः । तेनैव उक्तेन व्यङ्गयेनैव । उपकृता सतीति हेतुकथनम् । व्यङ्गयेति । असम्भाव्यत्वादिरूपोक्तव्यङ्गयेनोपस्कृतस्येत्यर्थः । आधत्त सम्पादयति । तथाच व्यङ्ग्यं गुणीभूतमिति भावः ।

 आमेति । वयमसत्यः स्वैरिप्यो भवामः । आमेत्यभ्युपगमे। उपरम त्वं मदुप• हासाद्विरम । शीलं सद्वृत्तम् । किं पुनः किन्तु । जनस्य जायेवेति । त्वमिवेत्यर्थः । त्वं यथा कामयसे तथेति यावत् । लोचने-साकाङ्क्षेति । साकाङ्क्षा उपहासव्य- ञ्जिका चेत्यर्थः । पतिव्रत इति न मलिनितमित्यत्र च काका तत्तदभावो व्यङ्गय इत्य- भिप्रायेणाह-पतिव्रत इत्यादि । चन्दिलमित्यस्य छाया-नापितमिति । तेन गम्यमाह-पामरेति । गुणीभावमिति । व्यङ्ग्यस्येति शेषः । अनुगम इत्यस्य